This page has not been fully proofread.

द्वितीयस्सर्ग:
 
'अनर्घजङ्घाधिगतिं 'वधूमणेर गन्यतोचैर्जयकाहलीगतिम् ।
पद्यमाप्तिमपि क्रमोदितामुदारपझोपगतिं तदाशयः ॥ २४ ॥
 
१०९
 
८८
 
अनर्धेति -- तस्य कृष्णस्य आशय: छन्दः । वधूमणे: रुक्मिण्याः ।
अनर्धयोः अमूल्ययोः लोकोत्तरयोरित्यर्थ: । जङ्घयोः प्रसृतयो: गुल्फजान्वन्त-
रालावयवयोरित्यर्थः । " जङ्वा तु प्रसृता " इत्यमरः । अधिगति प्राप्तिम् । उच्चैः
उत्कृष्टां जयकाहल्योः विजयसूचकचिरुदरूपककाहलीवाद्यद्वयस्य गतिं अधिगति
प्राप्ति बिरुदावाप्तितुल्यमिति भावः । तथा क्रमेण पौर्वापर्येण उदितां प्रवृत्ताम् ।
पदद्वयस्य चरणद्वन्द्वस्य प्रकरणाद्रुक्मिण्या इत्यर्थ: । प्राप्तिमपि लाभमपि । उदारयोः
प्रौढयोः पद्मयोः कमलयोः उप्रगति प्राप्तिम् । अन्यत्र पदद्वयस्य चरणद्वयप्रमित-
भूभागमात्रस्य लाभमपि उदारस्य गम्भीरस्य अपरिक्षीणस्येत्यर्थ: । पद्मस्य
पद्माख्यनिधेः प्राप्तिमित्यर्थः । अमन्यत मेने । मनु अवबोधने " इति धातोः
आत्मनेपदे लङ् । जङ्घयोर्द्वयं काहलीतुल्यतया चरणद्वितयमपि कमलतुल्यतया च
मेने स्वस्य तत्प्राप्ति च अतिशयितबिरुदलाभवत् निधिलाभवच मेने इति भावः ।
श्लेषालङ्कारः ॥ २४ ॥
 
(6
 
समानशीलेषु समग्रमिन्द्रिये ध्वरवर्वनिर्वेदकृतार्तिपूर्तिषु ।
असुख्यदस्याः कथया हरेः श्रुतिः कुतो व्यवस्था कुटिलात्मनां भवेत् ॥
 
समानेति---अथ कृष्णस्य रुक्मिणीगुणाश्रयसमुद्भूतस्य तद्विषयकाभिलाष-
जविप्रलंम्भशृङ्गारस्थायिनो रतिभावस्य विभावानुभावसात्विकसञ्चारिभावस-
मुल्लासाद्रसभावापत्तये सर्गद्वितीयपद्यमारभ्यालम्बनविभावरूपरुक्मिणीतदङ्गोप-
वर्णनमारचय्य सांप्रतं तदुद्दीपनविभावान् प्रपञ्चयति पञ्चभिः । हरे: कृष्णस्य ।
समानं सदृशं शीलं चरित्रं सुखदुःखादिकं येषां तादृशेषु । इन्द्रियेषु चक्षुरादिषु ।
लोके कस्मिंश्चित्सन्तुष्टे तदिन्द्रियाण्यपि प्रसन्नानि भवन्ति तस्मिन् दुःखिते
तु तान्यपि कलुषाणि भवन्तीति नियतत्वादिति भावः । समग्रं निश्शेषं,
 
2 G. वधूमणेरगाहतोच्चैः
 
1 G. अनर्धजङ्घातिगतिं.
 
3 A1 and G.
 
समक्षम् .