This page has not been fully proofread.

१०६
 
रुक्मिणीकल्याणे सव्याख्याने
 
"
 
सुखं अप्रयासम् । विशन् प्रविशन् सन् । अङ्गनामणे: रुक्मिण्याः । नीवीपदं जघन-
देशं मूलधननिक्षेपस्थानं च कोशागार मिति यावत् । "नीवीपरिपणं मूलधनम्
इत्यमरः । अवाप प्राप । क्रमेण नीवीस्थानमनुध्यातवानिति भावः । समस्तवस्तुविषयं
सावयवरूपकमलङ्कारः । स च श्लेषापह्नुतिभ्यामुत्थापित इति सङ्करः ॥ १९ ॥
उपेत्य रोमालिझराभिमुख्यभागुरोजमस्याः किल नाभिकूपतः ।
निरन्तरे चन्दनकर्दमे चिरं न्यलीयतान्तर्मधुजिन्मनोझषः ॥ २० ॥
 
"
 
उपेत्येति -- मधुजित: कृष्णस्य मनश्चित्तमेव झष : मत्स्य: । "पृथुरोमा
झषो मत्स्य:
इल्यमरः । अस्याः रुक्मिण्या: । नाभिरेव कूपः तस्मात् । रोमालि-
झरस्य रोमराजिरूपप्रवाहस्य गिरिनिर्झरस्येति भावः । आभिमुख्यं प्रतीपगमनं
भजतीति तादृशस्सन् । मत्स्यस्य प्रवाहाभिमुखोद्गमनस्य प्रसिद्धतयायमपि झषः
स्तनगिरितटादधःप्रसृतरोमालिकपटनिर्झरधारामवलम्ब्योद्गच्छन् सन्निति भावः ।
उरोजं स्तनम् । उपेत्य प्राप्य । निरन्तरे निबिडे । चन्दनकर्दमे पाटीरपङ्के स्तन
तटचर्चित इति भावः । अन्त: अभ्यन्तरप्रदेशे। चिरं बहुकालम् । न्यलीयत तिरो-
हितोऽभूत् । तत्र स्वच्छन्दसञ्चारक्षमसलिलाभावात् तापभीत्या तत्रसचन्दनपङ्के
तिरोदधे किमिति भावः । सावयवरूपकमलङ्कार: । निलयनंस्य कण्ठोक्त्या भगव-
न्मनसोऽन्यत्र स्फुरणाभावरूपायां शून्यतायां तत्र संभावितचन्दनकर्दमतिरोभवन-
तादात्म्यसंभावना क्रियास्वरूपोत्प्रेक्षा अनुक्तविषया तत्र रूपकमुपकरोति ।
सा च व्यञ्जकाभावात् गम्येति केचित् ॥ २० ॥
 
कुचस्थलात्कुङ्कुमपङ्कपिञ्छिलान्निपत्य मग्नं वत नाभिकाहूदे ।
मनो मुरारेमैदनसमुद्धरनितम्बचक्रेऽभ्रमयन्नतभुवः ॥ २१ ॥
 
कुचेति – मदनः स्मरः । कुङ्कुमप: काश्मीरवै: पिञ्छिलात् व्याप्तात्,
कर्दमिततया पदन्यासमात्रेण प्रस्खलनस्वरूपयोग्यादिति भावः । कुचस्थलति
स्तनतटात् । निपत्य प्रस्कन्द्य पतित्वेत्यर्थः । नाभिका नाभिरेव ह्रदः अगाधजला-
शयः। "अगाधजलो हृदः" इत्यमरः । मग्नं निमज्जितम् । मङ्क्त्वा पीतोदकमुच्छून-
मन्यत्र चलितुमक्षमतया तत्रैव परिलुठदिति भावः । मुरारे: कृष्णस्य । मनः चित्तम् ।