This page has not been fully proofread.

द्वितीयस्सर्गः
 
१०३
 
जनगोपनावसर इति भावः । धराधरं गोवर्धनाख्यं शैलम् । स्वकरोदरे निजपाणितले ।
दधार बभार । उदर इत्युक्त्या एकस्य करस्य सर्वांशव्यापनानपेक्षा, ततश्च भगवतः
पर्वतस्य सप्ताष्टदिवसनिरन्तरवहनेऽपि भगवच्छ्रमलेशाभावः, तेन च महासत्त्ववत्त्वं
च व्यज्यते । सोऽयं तथादृष्टशक्तिरपि हरिः । तदा रुक्मिणीविरहावस्थायाम् । पद्मदृशः
रुक्मिण्याः। पयोधरं स्तनम् । स्मरन्नपि संचिन्तयन् सन्नेवेत्यर्थः । श्रमेण आयासेन
उत्तरङ्गः अभिवृद्धः अतिदीर्धीभूत इति भावः । श्वसितानिलः निःश्वासमारुतः यस्य
तादृशः अभवत् आसीत् । दुस्सहविरहव्यथाकृतदीर्घनिःश्वासग्लपितोऽभूदित्यर्थः ।
करतलैकदेशमात्रेण गुरुतरगिरिवरचिरधारणेऽप्यसंभावितश्रमलेशस्यापि भगवतो
रुक्मिणीस्तनभारचिन्तनमात्रादेव महानायास इति महदिदमाश्चर्यमिति भावः । तेन
बलापचयरूपा ग्लानिर्नाम सञ्चारीभावो व्यज्यते । तदुक्तम् – "ग्लानिर्बलस्या-
पचयो वैवर्ण्यरतिकारणम् " ॥ इति ॥
 
यद्वा पूर्वधृतगोवर्धनाचलस्य सुखसन्धार्यत्वेऽपि ततोऽप्ययन्तगुरुतया
चिन्तनमात्रादेव यदायासजनकं स्तनमिति गोवर्धनात् रुविणीस्तनयुगे विशेष
प्रतीत्या व्यतिरेको व्यज्यते । विरहातिशयसमर्थितस्य पर्वतवहनेऽप्यश्रम:
स्तनस्मरणेऽप्यतिश्रम इति विरोधाभासः । उक्तव्यतिरेक विरोधयोः कस्मिन्
कविसंरम्भ इति सन्देहात्स व्यतिरेकपक्षे स्तनरूप गुरुतरवहनं विनैव तत्स्मृति-
मात्रेण श्रमवर्णनाच्चपलातिशयोक्तिः । विरोधे तु विरहातिशयप्रतीतिरेवेति
मन्तव्यम् ॥ १५॥
 
विदर्भपाठीनविलोचनामणेः पयोधरेऽथ स्मृतिपद्धतिस्पृशि ।
स राजहंसस्सहसैव मानसे समेधितौत्सुक्यभरोऽभवत्तराम् ॥ १६ ॥
 
विदर्भेति – विदर्भस्य विदर्भदेशाधीशस्य भीष्मनाम्नो राज्ञ इत्यर्थः । पाठीनौ
मत्स्यविशेषाविव विलोचने नयने यासां तादृशीनां मणे : स्त्रीरत्नभूताया:
रुक्मिण्या: । पयोधरे स्तने पयोधरे जलधरे च । स्मृतिपद्धति स्मरणगोचरीभावं
स्पृशति श्रयतीति तादृशि सति स्मर्यमाणे सतीत्यर्थः । कृष्णस्य रुक्मिणीस्तन-
चिन्तायां हंसस्य धनचिन्तायां च सत्यामिति भावः । सः राजहंसः
 
1 The original has the following in addition within brackets :
 
[विस्मृतार्थस्मारकचिन्तावसरे सर्वत्र मुखोन्नमनस्यैव भूयो दृष्टचरत्वेन स्मृतेरुर्ध्वदेशादापत-
नाध्यासात् स्मृतिपद्धतिं स्मरणापातमार्ग गगनान्तरालं स्मृशति आक्रामति सति]