This page has not been fully proofread.

रुक्मिणीकल्याणे सव्याख्याने
 
'तद्ग्रहारकतलं तलोदरीमणेस्समाक्रामदुरोजमण्डलम् ।
करग्रहं कर्तुमियेष तन्मनो 'व्यवस्थितिः कामवशंवदेषु का ॥ १४ ॥
 
१०२
 
तदिति - तस्य कृष्णस्य मनश्चित्तं कर्तृ । तस्याः रुक्मिण्या : अग्रहारस्य
हारश्रेष्ठम्य "परार्ध्याग्रप्राग्रसर : " इत्यमरः । एकतलं मुख्यस्थानभूतं वक्ष इत्यर्थः ।
पक्षे अग्रहारस्य ग्रामस्य ब्राह्मणगृहवाटिकाया इति भावः । एकतलं एकदेशम् ।
समाक्रामत् व्याप्नोति स्म । समाङ्पूर्वात् "क्रमु पादविक्षेपे" इति धातोर्लङ् ।
अचिन्तयदिति भावः । पक्षे स्ववशीचकारेति भावः । ततः तलोदरीणां शातोदरीणां
मणे: श्रेष्ठाया: रुक्मिण्याः। उरोजमण्डलं स्तनमण्डलम् । पक्षे उरोजाख्यं राष्ट्रमित्यर्थ ।
"मण्डलं. चक्रवालकम्" इत्यमरः । समाक्रामदित्यनुषज्यते । ततश्च कराभ्यां ग्रहं
संग्रहणं मर्दनमिति यावत् । अर्थात् स्तनमण्डलस्येति लभ्यते । रुक्मिण्या एव
पाणिग्रहणमिति च लभ्यते । पक्षे करस्य राजदेय बलिरूपधनस्य ग्रहं परिग्रहम् ।
कर्तुं रचयितुम् । स्वसमाक्रान्ताद्राज्यात् बलिमुखेन वित्तमपहर्तुमिति भावः ।
इयेष ऐच्छत् । रुक्मिणीपाणिग्रहणतत्संभोगादिगोचरो मनोरथोऽभवदिति भावः ।
तदुक्तम्- ." अन्नं वासो वसु महीत्युत्तरोत्तरकाङ्क्षिणः । अशावशात् प्रवर्तन्ते
लोभो लोभस्य कारणम् ॥ अदर्शने दर्शनेच्छा दृष्टे संभाषणे मतिः । भाषिते
भोगबुद्धिः स्यात् तन्नैरन्तर्यवीस्ततः ॥" इति ॥ अमुमर्थ सामान्येन समर्थयति-
कामवशंवदेषु कामपरतन्त्रेषु कामिनीकामुकेष्विति भावः । पक्षे लोभाविष्टे
व्यवस्थितिः व्यवस्था, इदमाशंसनीयमितोऽधिकं नापेक्ष्यमिति निर्णय: । पक्षे
लब्धमात्रेण परितुष्टि: अर्थला भेष्वलंबुद्धिश्च । का कीदृशी, न कापि भवेदित्यर्थः ।
कामुकस्य मनोरथो लुब्धस्य राज्ञो देशाक्रमणकरग्रहणादिकं च युज्यत एवेति
भावः । श्लेषरूपकाभ्यां उत्थापितसमासोक्तिगर्भोऽर्थान्तरन्यासालङ्कारः ॥ १४ ॥
 
"
 
धराधरं यः स्वकरोदरे पुरा दधार सोऽयं दनुजान्तकस्तदा ।
पयोधरं पद्मदृशः 'स्मरन्नपि श्रमोत्तरङ्गश्वसितानिलोऽभवत् ॥ १५ ॥
धराधरमिति -- यः दनुजान्तकः शकटाद्यसुरसंहारी कृष्ण: । पुरा बाल-
भाव एव, निजपूजोल्लङ्घनकुपितपुरुहूतसमादिष्टवलाहकाभिवृष्टिव्यथितगोकुलगोप-
1 G. तदग्रहारैकततम्. 2 G. व्यवस्थितम्.
 
3
 
G. स्तरन्नपि.