This page has not been fully proofread.

२०१
 
यथातथा । यावता सन्तापापगमस्तावदिति भावः । आश्लिष्य परिष्वप्य, चिरं
विचिन्त्येति भावः । स्मरतापस्य मदनज्वरस्य गाढतां तीव्रत्वम् । असोढ सेहे ।
मदनज्वरस्य रुक्मिणीप्राप्तिमन्तरा दुर्निवारत्वेऽपि तदीयाधरास्वादगाढालिङ्गनादि-
रूपसंकल्पसमागमेन किंचित् सह्यसन्तापोऽभूदिति भावः । अत्र चेतश्चिन्तना-
ध्यवसितप्रवालशय्यापरिवृत्तिगाढालिङ्गनादिवृत्तान्तेनाप्रकृतकामुकवृत्तान्तप्रतीत्या
समासोक्तिः । व्याधिरूपभावस्य उपशमनात् भावशान्तिरपीति केचित् ॥ १२ ॥
 
द्वितीयस्सर्ग:
 
निरन्तरध्यातनितम्बिनीमणीमनोज्ञहारावलि मानसं विभोः ।
अवाप मुक्तामयतामथ क्षणादधार तादृक्तरलात्मतामपि ॥ १३ ॥
 
८८
 
निरन्तरेति — विभोः कृष्णस्य । मानसं मनः । निरन्तरं अविच्छिन्नं
यथातथा ध्याता अनुचिन्तिता नितम्बिनीमण्या : रुक्मिण्या : मनोज्ञा मञ्जुला
हारावलिः मौक्तिकमाला येन तादृशं सत् । अथ अनन्तरम् । मुक्तः परित्यक्तः आमय:
विरहार्तिर्येन तादृशं तस्य भावस्तत्ता तां नीरोगतामित्यर्थः । अवाप अभजत् ।
आप्ऌ व्याप्तौ" इति धातोर्लिट् । क्षणात् व्याधिव्यपगमोत्तरक्षण एवेत्यर्थः ।
तादृक् अनिर्वचनीयां तरलात्मतां चञ्चलस्वरूपतामपि । दधार अवित् । संकल्प-
समालिङ्गनसमुत्पन्नसुखं क्षणमात्रं अनुभूयानुपदमेव पुनस्तल्लोलुपोऽभूदित्यर्थः ।
संकल्पसमागमसुखेन प्रथमं व्याधिरूपसञ्चारीभावोपमर्दने समनन्तरमेव चपल-
ताख्यं संचारीभावान्तरमुदभवदिति भावशान्तिरिति भावः । अन्यत्र मुक्तामयतां
मौक्तिकविकाररूपतामवाप क्षणाच्च तादृशीं अनिर्वचनीयां तरलात्मतां हारमध्य-
मणिस्वरूपतां "तरलो हारमध्यग: " इत्यमरः । निर्दोषमहार्वनायकमणिरूपतामिति
भावः । दधार प्रापेत्यर्थः । निरन्तरभ्रमरध्यानप्रभावात् कीटस्य भ्रमरभावापत्तिवत्
भगवन्मनोऽपि रुक्मिणीमुक्ताहारध्यानप्रभावात् मौक्तिक स्वरूपतां तन्मध्यगुम्भित-
रत्नस्यापि हारान्त:पातितया तद्रूपताया अव्यावश्यकतया हारमध्यमणिरूपतां च
प्रापेति भाव: । अत्र हरिमनः कर्तृकस्य मुक्तामयत्वतरलात्मत्वप्राप्तिरूपस्यार्थस्य
निरन्तरध्यातनितम्बिनीत्यादिपदार्थेन समर्थनात् काव्यलिङ्गमलङ्कारः, न चाशङ्कयं
परिकरः इति तस्य व्यङ्गयार्थसापेक्षतया प्रकृते व्यङ्ग्यानपेक्षणात् ॥ १३ ॥
 
1 The original bas in addition [केचित्तु रुक्मिणीस्मृतिरूपसञ्चारीभावेनैव
व्याध्युपमर्दः ततश्च फलतोदयः इत्याहुः । तदुक्तम् "व्याधिश्शरीरसन्तापो विरहादि
समुद्भवः" इति; "भावप्रकाशनपरा चेष्टा चपलतोच्यते " इति च ॥] within brackets.