This page has not been fully proofread.

द्वितीयस्सर्गः
 
९९
 
ननु महाकुलोद्भूतत्वमायुधस्य शत्रुविजये न नियामकं प्रत्युत कुलोद्भूतस्य
कारुण्याश्रयतया हिंसापेतत्वं पुनः प्रकृतविरुद्ध मिल्यतः कारणान्तरेण समर्थयति ।
मुख्यं मुखे वदने भवं मुख्यं प्रधानं च, प्रतिपक्षपक्षविक्षेपविचक्षणमिति भावः ।
करणं चाक्षुषप्रमाकरणं साधकतमं च । विना अन्तरा तदपहायेत्यर्थः । महतां
महाबलानां जय: पराजयः । न नहीत्यर्थः । मुख्यसाधनाभावे तत्साध्यकार्यमपि न
सध्येदेवेति भावः । नयनेन्दीवरस्य मुखोद्भूतत्वेन श्लेषेण प्रधानरूपत्वेन
तदङ्गीकारो नाभिकमलस्यातयात्वेन तत्परित्यागश्च युज्यत एवेति भावः । अत्र
मदनकृते रुक्मिणीनयनोत्पलकृष्ण नाभिकमलयो: ग्रहणाग्रहणे प्रति श्लेषमूलयो:
कुलीनत्वाकुलीनत्वयोः हेतुत्वसंभावनया हेतूत्प्रेक्षे श्लेषानुप्राणिते, मदनकृतस्य
रुक्मिणीनयनोत्पलायुवीकरणेन कृष्णपराजयरूपविशेषस्य 'विना न मुख्यम्'
इत्यादि सामान्येन वैयधिकरण्येन समर्थनादर्थान्तरन्यासश्च ॥ ९ ॥
 
मनोऽभिधानो मधुविद्विषो झषो विलासहासामृतवीचिषु भ्रमन् ।
विदग्धलीलातिलकस्य नासिकाविभूषणं हा बडिशं व्यगाहत ॥
 
16
 
"
 
मन इति - मनश्चित्तमित्यभिधानं नाम यस्य तादृशो झषः । विदग्धा
चतुरा लीला शृङ्गारचेष्टा यासां तादृशीनां विलासिनीनां तिलकस्य ललामभूतायाः
रुक्मिण्या: । विलासाश्च हासाश्च त एवामृतवीचय: सुधोर्मय: तासु । भ्रमन् सञ्चरन्
पन्, तत्तल्लावण्यातिशयमसकृदनुभवन्नित्यर्थः । नासिकाविभूषणं तीक्ष्णाग्रकुञ्चि
काकारनासाभरणरूपम् । बडिशं मत्स्यवेधनानुकूलदीर्घदण्डनिबद्धं शल्यविशेषम् ।
बडिशं मत्स्यवेधनम् " इत्यमरः । व्यगाहत अवाप । बडिशकीलितस्ततोऽन्यत्र
गन्तुमसमर्थस्तत्रैव चिरमवातिष्ठतेति भावः । विपूर्वात् गाहतेः कर्तर्यात्मने पदे
लङ् । हा कष्टं, बडिशाग्रनिखातामिषजिवत्सया समापतितस्य मीनस्य बडिश-
कीलनमिव सुख/तिशय लिप्सोः श्रीकृष्णमनसः नासाभूषणचिन्तनात् बलवती
व्यथाऽभवदिति महत्कष्टमिति भावः । अत्र मनःप्रभृतीनां झषत्वादिरूपणात्सा-
त्रयवरूपकम् ; तच्च मनोऽभिधान इत्युक्त्या मन इत्यभिधानमात्रं, न पुनर्मन एव ।
के तर्हि झष इति निषेधपर्यवसायिना[न्या] अभिधानशद्वलब्धापह्नुतिगर्भेति
संकरः ॥