2023-03-26 16:29:26 by ambuda-bot
This page has not been fully proofread.
९८
रुक्मिणीकल्याणे सव्याख्याने
।
दित्यर्थः । तत्क्षणे तदनुचिन्तनसमयमेव । सः कृष्णः । सशरं बाणसहितम् । जैत्रं
त्रिलोकविजयक्षमम्। स्मरस्य मदनस्य । शरासनं धनुः कर्म । चक्षुषा नयनेन ।
अध्यक्षयति स्म प्रत्यक्षीचकार । रुक्मिणीनयनयोः भ्रुवोश्च मदनशरशरासना-
भिन्नतया तदक्षिभ्रुवस्मृतिमात्रेण स्मरणमात्रसन्निधानकारिमहापुरुषवत् मदनशर -
शरासनसाक्षात्कारो बभूवेत्यर्थः । अक्षिभ्रुवचिन्तनेनात्यन्तविरहव्यधाकुलितोऽभव-
दिति भावः । रूपकालङ्कारः । नन्वत्र 'मुखं चन्द्रः' इत्यादाविवारोपस्य शाब्दत्वा-
भावात् कथं रूपकत्वमिति वाच्यम् । आरोपस्य शाब्दत्वाभावेऽपि अर्थाद-
भेदप्रतीतावपि रूपकस्य सर्वालङ्कारिकाभ्युपगतत्वात् । चित्ताध्वनितान्तपान्थ-
तामिति तु परंपरितं, अध्वत्वपथिकत्वरूपणयोरन्योन्यसापेक्षत्वात् । न च
विशिष्टरूपके विशेषणरूपकापेक्षास्तीति वाच्यम्, रूपकस्य सादृश्यमूलकत्व-
नियमस्य न परंपरिते रूपके विवक्षेत्यस्यैव भेदकत्वात् ॥ ८ ॥
अमुष्य पद्मं किल नाभिजातमित्युपेक्ष्य तद्भीमसुतादृगुत्पलम् ।
स्परोऽभिजातं स्मृतमायुधं व्यवाद्विना न मुख्यं करणं महज्जयः ॥ ९॥
अमुष्येति – स्मरो मदन:, कृष्णपराजयानुगुणायुधान्वेषपर इति भावः ।
अमुष्य कृष्णस्य पद्मनाभस्वरूपस्येति भावः । पद्मं नाभिकमलम् । नाभिजातं नाभी-
प्रदेशसमुद्भूतं, अत एव अभिजातं कुलीनं न भवतीति दुष्कुलीनत्वं लभ्यते । इति
किल एवं मत्वेव । तत् नाभिकमलम् । उपेक्ष्य अवधीर्य, कृष्णविजयोपयोगितया-
नङ्गीकृत्येल्यर्थः । कमलत्वेन स्वशरत्वेऽप्यकुलीनतया शत्रुविजयक्षमं न स्यादिति
तदुदस्येति भावः । अभितः समन्तात् जातं प्रवृद्धं प्रसृतमित्यर्थः, अतिविशाल
मिति भावः। तेन महाकुलोद्भूतमिति च लभ्यते । तथा स्मृतं चिन्तितं, प्रकरणात्
कृष्णेनेति ? [मदनेनेति] लभ्यते । तेन तत्कालोपस्थितत्वं तदङ्गीकरणनिमित्तं
व्यज्यते । अत एव स्मृतिविहितमिति च लभ्यते । भीमसुताया रुक्मिण्यां:
दृक् नयनमेव उत्पलं इन्दीवरं कर्म । आयुधं सायकम् । व्यवात् अकरोत् ।
रुक्मिणीनयनस्य इन्दीवररूपतया तदीयसायकत्वेन अभिजातत्वेन स्मृति-
संमतत्वेन च शत्रुविजयपर्याप्तं तदेवायुधीक्रय कृष्णं जिगायेति भावः ।
रुक्मिणीनयनसञ्चिन्तनेनात्यन्तविरहव्यथितो हरिरभवदिति भावः ॥
-