2023-03-26 16:29:25 by ambuda-bot
This page has not been fully proofread.
द्वितीयस्सर्गः
पुण्यकालप्रयुक्तं किमिति भावः । हरिः लोकोत्तररुक्मिणीवेणीसंस्मरणसंप्रवृद्ध-
विरहसन्तापात् प्रतिक्षणं मूर्छामगच्छदिति भूतार्थः । अत्र महार्णवत्वेन रूपिते
मोहे भगवतः प्रतिपदसंलग्नाध्यवसितमसकृन्मज्जनं प्रति रुक्मिणीवेण्यपहूनुत-
विधुन्तुदकर्तृक विवेकरूपचन्द्रस्यानुन्मेषाव्यवसितं ग्रसनं सोमोपरागविधया हेतु-
त्वेन संभावितमिति हेतूत्प्रेक्षा । सा च रूपकानुप्राणिता, सा चातिशयोक्त्य
पह्नुतिभ्यामिति संकरः ॥ ६ ॥
९७
तदा हृदाकाशपथावतारिणा तदीयवेणीतमसा तिरोहिते ।
विवेकशीतविषि किं विभोस्तमो विमोहसन्तानमयं व्यजृम्भत ॥ ७ ॥
तदेति-- विभोः कृष्णस्य । विवेकशीतत्विषि विवेकचन्द्रमसि । हृत् हृदयमेव
आकाशपथः गगनमार्गस्तेन अवतारिणा आपतता मनसा परिचिन्तितेनेत्यर्थः ।
तदीयवेणीतमसा रुक्मिणीवेणीरूपराहुणा । "तमस्तु राहु: " इत्यमरः । तिरोहिते
पिहिते ग्रस्ते सतीत्यर्थः । विभोरित्यनुषज्यते । विभोः कृष्णस्य । विमोहसन्तान-
मयं मूर्छानुवृत्तिरूपम् । तमः अन्धकारं, विषयप्रतिरोधरूपधर्मसाम्यादिति भावः ।
व्यजृम्भत किं व्यवर्धत किमु । जृम्भतेः कर्तर्यात्मनेपदे लङ् । कथमन्यथा नित्य-
निरतिशयसल्यज्ञानप्रसस्तभक्तजनतमस्तोमस्यापि भगवतो मोहसन्तमसोन्मेष इति
भावः । अत्र मोहसन्तानारोपितान्धकारविजृम्भणं प्रति वेण्यारोपितराहुकृतविवेक-
चन्द्रग्रसनमहेतुरेव हेतुतया संभावितमिति हेतूत्प्रेक्षा । सा च हृदाकाशेल्या दि
समस्तवस्तुविषयकसावयवरूपकोत्थापितेति संकरः ॥ ७ ॥
८८
यदा तदक्षि ध्रुवमिन्दिराधिभूर्निनाय 'चित्ताध्वनितान्तपान्थताम् ।
स चक्षुषाध्यक्षयति स्म तत्क्षणे स्मरस्य जैत्रं सशरं शरासनम् ॥ ८ ॥
यदेति - इन्दिराधिभूः लक्ष्मीपतिः कृष्णः । अधिभूर्नायको नेता"
इत्यमरः । यदा यस्मिन् समये । तस्या रुक्मिण्या : अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् ।
प्राण्यङ्गत्वादेकवद्भावः । नयनयुगं भ्रूयुगलं चेत्यर्थ: । चित्ताध्वनि चेतःपथे
नितान्तं अत्यन्तं पान्थतां पथिकत्वम् । निनाय प्रापयामास, चिरमन्वचिन्तय
1 G. चिन्ता-
13