2023-03-26 16:29:25 by ambuda-bot
This page has not been fully proofread.
९६
रुक्मिणीकल्याणे सव्याख्याने
अम्बुदः वारिदः । वियोगो विरह एव वर्माशुः सूर्यस्तेन विवर्धितः समुत्पादितः
ऊष्मा तापो यस्य तादृशस्य । तस्य महीभृतः राज्ञः कृष्णस्येत्यर्थः । पर्वतस्य च
मनस्तट: चित्तदेश एव मनस्तट: मनश्शिलायुक्तस्तट: सानुः तस्मिन् । भ्रमन् सतत-
परिवर्तमानस्सन् । बाष्पभरं नयनसलिलसन्तानमेव बाष्पभरं जलधूमसंहतिम् ।
"बाष्पोऽश्रूण्यम्बुधूमे च " इति वैजयन्ती । निर्भरं अतिमात्रम् । " अतिमात्रोद्गाद-
निर्भरम्" इत्यमरः । व्यजृम्भयन्नु उदपादयत् किमु । रुक्मिणीकेशपाशसञ्चिन्तन-
समयसमनन्तरमेव कृष्णस्य बाष्पधारोद्गमेन केशपक्षे वनतुल्यतया केशरूपो वनः
एव नयनसलिलाध्यवसितं बाष्पाख्यं जलधूममुदपादयत् किमिति संभाव्यत इति
भावः । अत्र विरहजनितबाष्पोद्गमे वियोगरूपसूर्याभितप्तकृष्णमनःप्रदेशरूप -
पर्वतसानुसञ्चारिरुक्मिणी केशपाशरूपंवारिदकृतजलधूमोत्सर्जनक्रियातादात्म्य
भावना स्वरूपोत्प्रेक्षा । सा च महीभृत इति मनस्तट इति बाष्पभरमित्ति च
श्लेषमूला भेदातिशयोक्त्या लब्धात्मा समस्तवस्तुविषयसावयवरूपकोत्थापितेति
संकरः ॥ ५ ॥
विवेकराकाविधुमाशयागते वधूमणीवेणिमुधाविन्दे ।
ग्रसत्यसौ सत्यममज्जदञ्जसा विभुर्मुहुर्मोहमहार्णवाम्भसि ॥ ६ ॥
विवेकेति -- आशयं हृदयं आगते प्राप्ते मनसा परिचिन्तित इत्यर्थः ।
अन्यत्र आशया अमृतमयस्य चन्द्रस्य ग्रसनेच्छया । यद्वा आशया दिशा आगते
गगनमार्गेणाभिमुखापतित इति भावः । वधूमण्या : रुक्मिण्या : वेणिमुधाविधुन्तुदे
वेणिकाकपटराहौ । विवेकं तत्तद्वस्तुस्वरूपपरिज्ञानमेव राकाविधं पूर्णचन्द्रम् । ग्रसति
कबलयति सति, चन्द्रग्रहणाख्यपुण्यकाले वटिते सतीत्यर्थः । असौ विभुः एषः
कृष्ण: । स्वयं विधिचोदितं कर्म निर्माय परानप्येवमनुष्ठापयितुं मानुषवेषानुगुण-
मनुतिष्ठन्निति भावः । अजसा झटिति अनुपदमेवेत्यर्थः । मोहः मूर्छनं
सन्निकृष्टवस्तुपरिज्ञानाभाव एव महार्णव: दुस्तार : सागर : तस्यांभसि सलिले ।
मुहुः प्रतिपदं असकृदित्यर्थः । अमज्जत् मज्जति स्म । सत्यं ध्रुवम् । भगवतो
मोहसागरप्रतिपदमजनं विवेकचन्द्रमसो वेणीविधुन्तुदग्रसनात्मकसोमोपराग-
1 G. मुहुर्विभुर्मोह-