This page has not been fully proofread.

द्वितीयस्सर्गः
 
66
 
रुक्मिणीचिन्तनप्रतिपादनेन तदेकायत्तताप्रतीत्या विप्रलम्भशृङ्गारसंभावितासु
दशावस्थासु मनस्सङ्गो नामावस्थाविशेषो व्यज्यते । तदुक्तम् – " चक्षुः प्री-
तिर्मनस्सङ्गः संकल्पोऽथ प्रजागर: । अरति: संज्वर: कार्य लज्जात्यागो भ्रमो
मृतिः ॥" इति । " मनः सङ्गस्तु मनसस्तदेकायत्तता मता " इति च ॥ ३ ॥
 
९५
 
घनाघनस्तत्कवरीभरच्छलश्वरीकरोति स्म पदं हृदन्तरे ।
विभोर्विचित्रं दृशि वाष्पदृष्टिभिर्विसृत्वरीभिः समभावि सत्वरम् ॥
 
घनाघनेति – तस्याः रुक्मिण्या: । कबरीभर इति केशपाश इति छलः
कपटो यस्य तादृशः । वनावनः मेवः । विभोः कृष्णस्य । हृदन्तरे हृदयमध्ये । पदं
अवस्थानम् । चरीकरोति स्म अकरोत् । करोतेः यङ्गन्ताल्लुट् । स्मयोगात्
भूतार्थता। बाष्पैः नयनसलिलैरेव वृष्टिभिः वर्षबिन्दुभिः कर्त्रीभि: । दृशि नयने,
विभोरित्यनुषज्यते । विसृत्वरीभिः प्रसरन्तीभिः । समभावि सम्बभूव । पूर्वाद्भव-
तेर्लुङ् । रुक्मिणीकचभार स्मृतिमात्रेण भगवतो बाष्पवृष्टयः समभूवन्निति भावः ।
विचित्रं आश्चर्यम् । एकत्र मेघावस्थानें ततोऽन्यत्र वर्षोत्पत्तिरिति चित्रम् ।
तत्राप्यधोभागे मेवावस्थितिस्तदुपरिभागे वर्षोद्गतिरिति महदद्भुतमिति भावः ।
अवृष्टिरूपकार्यस्य तत्कारणवनावस्थानस्य च भिन्नदेशावस्थित्या असङ्गन्यलङ्कारः ।
विरुद्धभिन्नदेशत्वं कार्यहेत्वोरसंगतिः " इति लक्षणात् । स च कबरीभरच्छलः
इति कैतवापनुत्यनुप्राणित इति संकरः ॥
 
८८
 
नन्वत्र विरोधालंकार एव स्यादिति चेत्, सत्यम् । असंगतेः
विरोधात्, विविक्तविषयत्वाभावेन विरोधस्य समानाधिकरणस्थले जाते: जात्यादि-
भिरित्यादेः विविक्तविषयतया, 'सावकाशनिरवकाशयो: निरवकाशं बलीय: '
इति न्यायेन निरवकाशाया असङ्गतैरेवात्रालंकारत्वमित्यलं विस्तरेण ॥ ४ ॥
 
वियोगधर्माशुविवर्धितोष्मणो महीभृतस्तस्य मनस्तटे भ्रमन् ।
विदर्भजा कैशिक विभ्रमाम्बुदो व्यजृम्भयद्वाप्पभरं नु' निर्भरम् ॥५॥
 
वियोगेति– विदर्भजाया : रुक्मिण्या: कैशिक : केशसमूह: । "तद्वृन्दे
कैशिकं कैश्यम्" इत्यमरः । तदिति विभ्रम भ्रान्ति: अपदेशो वा यस्य तादृशः
 
1 A. तु.