This page has not been fully proofread.

द्वितीयस्सर्गः
 
९३
 
आलम्बनगुणश्चैव तच्चेष्टा तदलंकृतिः ॥ तटस्थश्चेति विज्ञेयश्चतुर्थोद्दीपनक्रमः ।
आलम्बनगुणो रूपयौवनादिरुदाहृतः ॥ तच्चेष्टा यौवनोद्भुतहावभावादिका मताः ।
नूपुराङ्गदहारादितदलङ्करणं मतम् ॥ मलयानिलचन्द्राद्यास्तटस्था: परिकीर्तिताः ॥"
इति ॥ चन्द्राद्या इत्यनेन पूर्वोदिता: पल्लवादयो गृह्यन्ते । तथाविधं निष्कुटं
पश्यन् सन् । भीममहीशस्य भीष्मकनाम्नो महीशस्य राज्ञः नन्दनां रुक्मिणीम् ।
हृदन्तरस्य हृदयावकाशस्य सदनस्थानीयस्य अतिथिं प्रथमागतपूज्यपुरुषरूपम् ।
अतन्तनीत् अकरोत् स्मृतिविषयीचकारेति भावः । अत्र शृङ्गारस्थायिनो
रतिभावस्य उत्पादकं रुक्मिणीस्मरणमात्रमुद्दिष्टमिति भावस्याङ्कुरितत्वरूपोत्पय-
वस्था व्यज्यते । अत्र रुक्मिण्यामतिथित्वरूपणेन भगवन्मनसः सदनत्वस्य
गम्यतया एकदेशविवर्तिरूपकमलङ्कारः । अस्मिन् सर्गे प्रायेण वंशस्थवृत्तम् ।
" जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात् ॥ १ ॥
 
वियोगसन्तापभरापनुत्तये विगाह्य शौरेरथ मानसोदरम् ।
कृताप्लवायां कृशमध्यमामणावुपर्युपर्युत्कलिका जजूंभिरे ॥ २ ॥
 
>>
 
वियोगेति -- अथ रुक्मिणीसञ्चिन्तनसमनन्तरम् । क्रुशमध्यमानां कृशाङ्गीनां
मणौ श्रेष्ठायां रुक्मिण्यामित्यर्थः । शौरे: कृष्णस्य । मानसं मन एव मानसाख्यं
सरः तस्य उदरं मध्यदेशम् । विगाह्य प्रविश्य । वियोगेन विरहेण कृष्णासमा-
गमरूपेण संजातस्य सन्तापभरस्य तापातिशयस्याल्पशीतोपचाराद्यनपोह्यस्ये-
त्यर्थः । अपनुत्तये व्यपोहनाय निवृत्तये किलेति भावः । कृताप्लवायां
विहितगाढमज्जनायां सत्याम् । "समे आप्लाव आप्लव:

इत्यमरः । भगवता कृतं
रुक्मिणी विचिन्तनमेव तयैव स्वयमाचरिततापापनोदार्थकगाढावगाहनतयाध्यव-
सीयते । उपर्युपरि, प्राचुर्ये द्विरुक्तिः । उत्कलिका: उत्कण्ठा एव ऊर्ध्वोद्गताः
कलिकाः कोरकाः जलबिन्दवः । "उत्कण्ठोत्कलिके समे" इत्यमरः । जजृंभिरे
उदभवन् किमिति भावः । " जभी गात्रविनामे " इति धातोरात्मने पदे लिट् ।
अत्र भगवतः उत्कण्ठाया: श्लेषमूला भेदातिशयोक्तिलब्ध मुद्ग तसलिलबिन्दुसन्तानं
प्रति भगवत्कृतरुक्मिणीसंस्मरणाध्यवसितं तापोपशमनार्थकं मानसपदश्लेष-
मूलातिशयोक्तिसंपादितमानससरः प्रवेशपूर्वक रुक्मिणीकृतमालावनमहेतुरेव हेतुतया