This page has not been fully proofread.

द्वितीयस्सर्गः
 
अथ च यूनो: परस्परालोकनश्रवणस्मरणादिना समुद्भूतस्य शृङ्गारस्थायिनो
रतिभावस्याङ्कुरितत्वपल्लवितत्वकोर कितत्व कुसुमितत्वादिना क्रमेण रसतापत्तेस्त-
श्राविधं भगवतो रुक्मिणीगोचरं रतिभावं क्रमश: प्रपञ्चयति -
 
अथ स्मरोद्दीपनमात्मनिष्कुटं विलोचनासेचनकं विलोकयन् ।
अतन्तनीदेष हृदन्तरातिथि मधुद्विषन् भीगमहीशनन्दनम् ॥ १ ॥
 

 
अथेति -अथ दारुकवचनानन्तरम् । एष मधुद्विषन् मधुनाम्नो दानवस्य
संहारी हरिः । द्विषोऽमित्र इति "द्विष अप्रीतौ " इति धातोर्लट: शतृप्रत्ययः । जाति-
वाचकत्वात् सन् देवदत्त इतिवत्साधुत्वम् । अत्र मधुशब्दश्लेषेण वसन्त-
विद्वेषीति लभ्यते । तेन तात्कालिकी रुक्मिणीविषयिणी विरहावस्था व्यज्यते ।
विलोचनयोः नयनयोः आसेचनकं अपर्याप्तानन्ददायकम् । "तदांसेचनकं तृप्तेर्ना-
स्त्यन्तो यस्य दर्शनात् " इत्यमरः । स्मरस्य मदनस्य उद्दीपनं प्रज्वलनं ददाति
वितरतीति तादृशं मदनोद्रेककारकमिति यावत् । आत्मनः स्वस्य निष्कुटुं
गृहोद्यानम् । यद्वा स्मरं मदनं उद्दीपयन्ति शृङ्गाररसपरिपोषणेनाभिवर्धयन्तीति
स्मरोद्दीपनानि उद्दीपनविभावरूपतया प्रसिद्धानि पलवकुसुमपरभृतषट्चरण-
मरन्दमन्दपवनादिविजृम्भणानि ददातीति तादृशं निष्कुटमित्यर्थः ॥ तदुक्तम्-
विभावैग्नुभावैश्च सात्विकैर्थ्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायीभावो
रसः स्मृतः ॥ विभावः कथ्यते तत्र रसोत्पादनकारणम् । आलम्ब-
नोद्दीपनात्मा स द्विधा हृदयंगम: ॥ स्थाय्युदेति यदालम्ब्य तदालम्बनमुच्यते ।
 
1 A. स्मरोद्दीपनदाननिष्कुटम्.