2023-03-26 16:29:24 by ambuda-bot
This page has not been fully proofread.
प्रथमस्सर्गः
प्रीतिर्येन तादृशस्य । तव ते । पुष्परसै: मकरन्दै: उदकस्थानीयैरिति भावः ।
पाद्यं पादोदकं अतिथिप्रथमोपहाररूपमिति भावः । तनोति रचयति । एकशब्दो-
पात्तत्वनिमित्तेन फल्गुनतयाध्यवसिते स्वस्मिन् हितप्रेम्णे भवनमुपगताय
तुभ्यमवश्यार्पणीयं पादोदकं तद्रूपतापन्नै: स्वीयमरन्दैरेव निर्वर्तयतीत्यर्थः ।
तथा पुन्नाग: केसरतरुः पुरुषश्रेष्टश्च पुरुषोत्तमस्य परमपुरुषस्य सदृक्षतया
स्वसुहृद इति भावः । पुष्पैः कुसुमैः उपहारक्रियां उपायनार्पणव्यापारम् । तनुते
रचयति, सुरभिकुसुमसमृद्धेः पथिकश्रमापनेतृत्वस्य प्रसिद्धत्वादिति भावः । तथा
एष मन्मथः कपित्थः स एव प्रद्युम्न: मन्मथपितु: इन्दिरायां मदनजनकस्य
विष्णोः तदात्मनस्तवेति भावः । रुक्मिण्यां प्रद्युम्नं जनयिष्यत इति वा । दिव्यैः
रमणीयैः फलैः प्रीणनां प्रीतिं दत्ते ददाति । एवमेकोद्यानगृहस्थानाममीषां
स्वावासाभ्यागतार्हणातौल्येऽपि प्रत्येक मेकैकसम्बन्धान्तरनिमित्तकतया एकैक-
मेकैक इति प्रेमानुरोधेनाचरन्तीवेति भावः । इति एवंविधतया आकर्णिता श्रुता
अनुमोदिता चेत्यर्थः । दारुकस्य दारुकनाम्नः सूतस्य उक्तिश्चमत्कृतभाषणं येन
तादृशस्सन् । परां निरतिशयां निर्वृतिं सुखं हृदयानन्दातिशयमित्यर्थः । "निर्वाणं
निर्वृतिस्सुखम्" इत्यमरः । अदधात् अधत्त । इत्थं दारुकप्रदर्श्यमानमुद्यानरा-
मणीयकमधिगम्य निरतिशयां निर्वृतिमभ्यगादिति भावः । अत्र स्वभावसमुद्भूतेषु
अर्जुनपुन्नागमन्मथुतरूणां मधुस्यन्दपुष्पोद्गमफलोद्गमेषु कृष्णागमनसमयसंघट्ट
नेनाध्यवसितश्लेषमूला भेदातिशयोक्तिसंपन्नफल्गुनपुरुषर्षभमदनकृतपादोदकपुष्पो-
पायनफलातिसर्जनं प्रति अर्जुनादिषु प्रीत्याधानादिकृतः सम्बन्धो न हेतुरिति
तस्य हेतुत्वमर्जुनकृतप्री तेरित्या दिविशेषणविन्यासबलात् प्रतीयत इति हेतूत्प्रेक्षा
गम्या । अर्जुनकृतप्रीतेरित्यादिविशेषणानामर्जुनादिकृतप्रत्युपकारसमर्थकतया
काव्य लिङ्गानुविद्वेति सङ्करः । शार्दूलविक्रीडितं वृत्तम् । "सूर्याश्वैर्मसजास्त-
तस्स गुरवः शार्दूलविक्रीडितम्" इति लक्षणात् ॥
८८
इति श्रीविश्वामित्रकुलकलशार्णवचन्द्रायमाणवालचन्द्रार्यतनूजेन यज्ञवेदेवरेण कृतायां
रुक्मिणीकल्याणव्यांख्यायां मौक्तिकमालिकाख्यायां
प्रथमस्सर्गः समाप्त:
९१