2023-03-26 16:29:23 by ambuda-bot
This page has not been fully proofread.
८८
रुक्मिणीकल्याणे सव्याख्याने
नानां लतागृहाणां उदरेषु मध्यप्रदेशेषु यावता अन्तरेण सुरतान्तसुखप्रसुप्तव-
नितानि:श्वासपवनः सिन्दुवारमुपस्पृशेत्तावत्तदन्तरगतलतानिकुञ्जेष्विति भावः ।
तान्ते सुरतावसाने नायिकाभिरतिकामनया स्वयमाचरितपुरुषायितसुरतावसाने ।
अत्र रतान्तावलम्बनं निःश्वासस्य दूरविसारित्वलाभाय न पुनः सुरतान्त-
निःश्वासस्यैव तद्दोहलत्वाभिप्रायेण । नितान्तं अत्यन्तं अतिदीर्घमिति भावः ।
निःश्वासं रेचकपवनोद्गमं जुषन्ति भजन्तीति तादृशी:, सुरतश्रमेणासकृदुत्कृष्टस्य
श्वासपवनस्य तदवसाने स्वच्छन्दविसरणेन निश्वासदैर्घ्यस्यानुभाविकत्वादिति
भाव: । तादृशी: सीमन्तिनी: कामिनी: । अचिरं अनुपदमेव सुरतावसानसम-
समयमेवेति भावः । उज्जिहानैः निर्गत्वरैः । उत्पूर्वाज्जिही तेरात्मने पदे लट:
शानच् । प्रसूनैः कुसुमैः वृन्ताधरविवृतदन्तपङ्क्तिरिति भावः । हसन्ति
परिहसन्तीवेत्यर्थः । स्वीयां शक्तिमपरिचिन्त्य मोहावेशेन कुतः पुंभावे
प्रवर्तितव्यम् कुतश्चेदृशायासोऽनुभोक्तव्य इत्यसमीक्ष्यकारिणं परिजहसुरिवेति
भाव: । अत्र दोहलाधीनसिन्दुवारकुसुमोद्गमनक्रियायां सिन्दुवारकर्तृककामिनी-
चरितपरिहासक्रियास्वरूपोत्प्रेक्षा । अनुप्रासेन संसृष्टि: ॥ १०१ ॥
,
आस्वाद्य यस्मिन्नमृतोपमानं मुखासवं मुग्धविलोचनानाम् ।
वक्त्रेषु तासां वकुला मधूनि भूयः स्वयं पुष्पमुखैर्दिशन्ति ॥ १०२ ॥
आस्त्राद्येति – यस्मिन् निष्कुटे । वकुला: केसराख्या: पादपाः । मुग्ध-
विलोचनानां चपलनयनानां वनितानाम् । अमृतोपमानं सुधातुल्यम् । मुखासवं
मुखान्निस्सृतां सुरां वकुलानां दोहलीभूतमिति भावः । आस्वाद्य पीत्वा । भूयः
अनुपदम् । स्वयं स्वात्मना । पुष्पैः कुसुमैरेव मुखैः वदनैः । मधूनि मकरन्दान्येव
मधूनि आसवान् दिशन्ति प्रदिशन्ति । यथा हि विटसार्वभौमा वाराङ्गना-
वदनोत्सृष्टं मधु स्वयं आस्वाद्यानुपदमेव स्वमुखोपगृहीतमासवं तासां मुखेश्व-
र्पयन्ति, एवं वकुला अपि दोहलदायिनीनां मुखासवमापीयानुपदोद्भूतकुसुमात्म-
कनिजवदनैरासवात्मकं मधु विसृजन्तीति भावः । अत्र दोहलोद्भुतकुसुमनिस्सृतानां
मरन्दानां तद्दर्शनार्थोद्ग्रीविकोक्तानि तद्दोहलदायिनीवदनपतने वकुलकर्तृक
दोहळदायिनी प्रदिष्टमुखासवप्रतिप्रदानतादात्म्यसंभावनास्वरूपोत्प्रेक्षा प्रकृतनायिक।
-