This page has not been fully proofread.

प्रथमस्सर्ग:
 
'कुरण्डशाखी कुटिलेक्षणानां कुचेषु कूलङ्कपतापशान्त्यै ।
गुलुच्छकुम्भोद्गलितैर्मरन्दैराभाति यस्मिन्नभिषिच्यमानः ॥ ९६ ॥
 
८५
 
-
 
८८
 
कुरण्डेति – यस्मिन् निष्कुटे । कुरण्डशाखी कुरवकद्रुमः । कुटिलेक्षणानां
कामिनीनाम् । कुचेषु स्तनेषु, स्वस्मै दोहलीभूतपरिष्वङ्गावसर परिज्ञातसन्ता-
पेण्विति भावः । कूलङ्कषस्य गाढतरस्य तापस्य सन्तापस्य शान्त्यै अपनोदाय ।
गुलुच्छात् गुच्छादेव कुम्भात् कलशात् । "गुच्छो गुलुच्छस्तबकः " इति
शब्दार्णवः । उद्गलितैः निस्सृतैः आवर्जितैरिति भावः । मरन्दै: मकरन्दैः ।
अभिषिच्यमानः अभिषेकं कुर्वाण इव । आभाति संभाव्यते । अत्र स्वाभाविकं
कुरवकस्य स्वदोहलीभूतकामिनीगाढालिङ्गनसंभूतकलशाकारगुच्छान्मकरन्दधारा-
निस्सरणं प्रति परिष्वङ्गपरिज्ञातपयोधरप्रौढतापव्यपोहनमफलमेव फलतया निर्दिष्ट
मिति फलोत्प्रेक्षा । वृत्त्यनुप्रासेन संसृष्टि: ॥ ९६ ॥
 
इसन्मुखीरिन्दुमुखीस्सलीलमालोक्य पुन्नागगणो यदीयः ।
उत्फुलपुष्पस्तवका पदेशा दुदीर्णमन्दस्मितवद्विभाति ॥ ९७ ॥
 
"
 
हसदिति – यदीय: यादृशनिष्कुटे भवः । पुन्नागानां केसरवृक्षाणां
पुरुषवर्याणां च । "उपमितं व्याघ्रादिभिः " इति उपमितसमासः । गण: समूहः ।
सलीलं सविलासं यथा भवति तथा । हसन्मुखी: सस्मितवदना: सभावहसित-
मालोकयन्तीरिति भावः । इन्दुमुखी: चन्द्रसदृशवदना: युवतीः । विलोक्य
अभिवीक्ष्य । पुन्नागदोहलीभूतं मन्दहासमासाद्येति भावः । भावाविष्करणक्षम-
मन्दस्मितमुद्वक्ष्येति च प्रतीयते । उत्फुल्लानां विकचानां पुष्पाणां स्तबको
गुच्छ इत्यपदेशात् कपटात् । उदीर्ण उद्भूतं मन्दस्मितं मन्दहासः यस्य तादृश
इव । विभाति भासते संभाव्यत इति भावः । कामिनीनामनुरागद्योतकमन्दस्मित-
मालोक्य पुन्नागपदश्लेषप्रतीतः पुरुषवर्यगणोऽपि स्वाभिप्रायप्रपञ्चकमन्दस्मित-
मतनोत् किमिति भावः । अत्र दोहलीभूतवनितामन्दस्मितसमनन्तरसमुद्भूत-
कुसुमस्तबकोद्गमे पुन्नागपदश्लेषमूला भेदाव्यवसितपुरुषर्षभकर्तृकमन्दहासोदश्चन-
1 G. कुरुन्द--
" A'., G. कुचोष्म-