This page has not been fully proofread.

रुक्मिणीकल्याणे सव्याख्याने
 
भङ्गं छेदं, नखरविलेखनादिविहारं, अवतंसार्थापचयं वा । करपादाद्यङ्गच्छेदरूप
दण्डमिति च गम्यते । करोति कुरुते । इतीति शेषः । एवं शङ्क संभावयामि ।
अंत्र कान्ताजनपादतलसंपर्कदोहलवशात् सद्य:समुदित्वराणां किसलयानां
कामिनीजनकृतविभ्रमचेष्टारूपायामवतंसार्थादानक्रियायां वा कामिनीकरतलगतां
कान्ति चोरवृत्त्यापहृत्य तरुगर्भनिलीनानां कामिनीकृतपादप्रहारेण प्रक्षुभित-
तत्प्रच्छादककङ्केलितरुप्रत्यर्पितानां च तेषां पलवानां खण्डनरूपक्रियातादात्म्य-
संभावना स्वरूपोत्प्रेक्षा । वृत्त्यनुप्रासेन संसृष्टिः ॥ ९४ ॥
 
'प्रमूनलावीजनपाणिपद्मस्पर्शोत्सवाय स्पृहयन्निवारात् ।
पुनःपुनर्यत्र रसालसाल: पुष्णाति पुष्पस्तवकाननेकान् ॥ ९५ ॥
 
-
 
"
 
प्रसूनेति – यत्र निष्कुटे । रसालसाल: सहकारतरुः । प्रसूनानि लुनन्ति
छिन्दन्तीति प्रसूनलाव्य: पुष्पापचयकारिण्यो वनिताः । कर्मण्युपपदे लुनातेः
"कर्मण्यण् " इति अण्प्रत्यये "टिड्ढाणञ्" इति ङीप् । ता एव जनाः तेषां
पाणिपद्मस्य करकमलस्य स्पर्श: संपर्क: स एव उत्सवः तस्मै । पुनःपुनः असकृत् ।
स्पृहयन्निव अभिलषन्निव । "स्पृहेरीप्सितः " इति संप्रदाने चतुर्थी । अनेकान्
बहून् । सकृत्पुष्पितेष्वपचितेषु च पुनरन्ये पुष्पस्तबका:, तेश्वपचितेषु ततोऽन्य
इत्यनेकवारोद्गतानिति भावः । पुष्पस्तबकान् कुसुमगुच्छान् । आरात् समीपे ।
अवनितलस्थिता एव ता यथा कुसुमान्यपचिनुयुस्तथेत्यर्थः । अन्यथारोहणादि-
प्रयासभयान्नापचयेयुरिति मनीषयेति भावः । पुष्णाति उत्पादयति । "पुष
पुष्टौ " इति धातोर्लट् । तरूणां सकृत्सूनोत्पादनस्वाभाव्येऽप्यत्रासकृत् कुसु-
मोद्गम: असकृंत्तत्संग्रहणार्थकामिनीकरसंस्पर्शप्रत्याशाकृतः किमिति भावः । अत्र
कामिनी करस्पर्शस्यैव रसालदोहलत्वेन पुष्पग्रहणार्थकामिनीकरस्पर्शस्यापि पुनः
पुष्पोत्पादनदोहलतया तेनापि पुनः कुसुमोत्पत्तौ तदाहरणाय पुनः करस्पर्श-
इति दोहलाधीनप्रतिपदकुसुमोत्पादने असकृत्कान्ताकरग्रहणाभिलाषहेतुकत्व-
संभावना हेतूत्प्रेक्षा ॥ ९५ ॥
 
14. प्रसूनलावीजनपद्मपाणिस्प-
1A'.