This page has not been fully proofread.

८६
 
रुक्मिणीकल्याणे सव्याख्याने
 
तादात्म्यसंभावनां स्वरूपोत्प्रेक्षा कैतवापनुतिगर्भा उपमातिशयोक्तिभ्यामनु
विद्वेति संकरः ॥ ९७ ॥
 
यदृच्छया यत्र विलासवत्यो दृशा स्पृशन्त्यस्तिलकं जडं च ।
आपादमाचूडमनङ्गबाणैरातन्वते हन्त ठावकीर्णम् ॥ ९८ ॥
 
यदृच्छयेति -- यत्र निष्कुटे । विलासवय: कामिन्य: । तिलकं क्षुरकाख्यं
कामिनीकटाक्षवीक्षणदोहलिकं वृक्षविशेषम् । जडं अचेतनं भावेङ्गिताद्यपरिज्ञं च ।
यदृच्छया सामान्यदृष्ट्या । स्पृशन्स: विलोकयन्त्यः सत्यः तावन्मात्रेणेति भावः ।
आपादं चरणमारभ्य आचूडं शिरःपर्यन्तं आमूलाग्रशाखम् । अनङ्गबाणैः
मदनसायकैः कुसुमैरित्यर्थः । युवपक्षे साक्षान्मदनसायक: हठात् बलात्
रभसेन च कामिनी कटाक्षपातस्यातिबलीयस्त्वादिति भावः । अवकीर्ण व्याप्तं
आतन्वते वितन्वन्ति । हन्त इत्यद्भुते । अचेतनस्यापि तिलकस्य सचेतनेष्वपि
भावानभिज्ञस्यापि जडस्य यादृच्छिकोदासीनदृष्टिपातमात्रादीदृशी दशा चेत्
किमु वक्तव्यं सहृदयरसिकविषये सविलासविलोकनं च व्यथयतीति । अतोऽति-
शयेनैव व्यथयेदतः कष्टतर मिति भावः । अत्र वर्ज्यानां तिलकानां अवयनां
अनभिज्ञानां च कामबाणाभिव्याप्तत्वरूपकधर्मान्वयाद्दीपकालङ्कारः । "वदन्ति
वर्ण्यावर्ण्यानां धर्मक्यं दीपकं बुवा : " इति तत्लक्षात् ॥ ८ ॥
 
प्रायः प्रियाल: प्रमदाजनानामाकर्ण्य गीतीरमृतकरीतीः ।
सग्रस्स्फुरत्कोरकसङ्गिभृङ्गीसङ्गीतमयानुकरोति यस्मिन ॥ ९९ ॥
 
--
 
प्रायं इति - यस्मिन् निकुटे । प्रियाल: राजानो नाम वृक्षः । प्रमदाजनानां
योषिताम् । अमृतेन सुधया सह एका अभिन्ना तुल्येति यावत् रीतिः भङ्गी यासां
• तादृशी: अमृतवदास्वादनीया इति भावः । गीती: गानालापञ्चनीन । आकर्ण्य
 
। सद्यः सपदि स्फुरद्भिः विकसद्भिः गङ्गनागानध्वनैः प्रियालदोहलत्वेन
तादृशगानाकर्णनसमकालमेव किसलयकोरककुसुमायुत्पत्ती पौर्वापर्यमनपेक्ष्य सद्यो
विकसद्भिरिति भावः । कोरकै: मुकुलैस्सह सङ्गिनीनां मिलितानां तदीयमधु-
1 AJ., G. रीती: