2023-03-26 16:29:22 by ambuda-bot
This page has not been fully proofread.
प्रथमस्सर्ग:
८१
अथ तमेव निष्कुटं यत्तद्भया मेकान्वयेन प्रपञ्चयति चतुर्दशभिः निलीयेल्या-
दिभिः ---
"
८८
निलीय पुष्पस्तवकोदरेषु निष्पन्द्रपुष्पन्धयकैतवेन ।
निद्राति यस्मिन् निभृतं तरूणां छाया रुणोलङ्घनजाङ्घिकानाम् ॥९१ ॥
निलीयेति – यस्मिन् निष्कुटे । अरुणस्य सूर्यस्य । "मिहिरारुणपूषण:
इत्यमरः । उल्लुङ्ङ्घने अतिक्रमणे विषये जाङ्घिकानां प्रजविनाम् । 'तेन चरति
इत्यर्थ ठक्प्रत्ययः । "जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ " इत्यमरः ।
सूर्यमण्डलमतीत्य प्रवृद्धानामिति भावः । तरूणां पादपानाम् । छाया अनातपः ।
संज्ञानाम्न्याः सूर्यपत्न्याः प्रतिरूपिका छायाख्या सूर्यपत्नी च । सा च स्वभर्तुः
सूर्यस्याभिमुखावस्थितिमपहाय यत्किञ्चिदन्तरतः कृत्वैव प्रवर्तमाना साम्प्रतं
तान्तरमलभमा नेति भावः । पुष्पस्तबकानां कुसुमगुलुच्छानां उदरेषु
मध्यदेशेषु । निष्पन्दानां अचञ्चलानां वृक्षादबहिर्गतानामिति भावः । पुष्पंधयानां
मधुकराणां कैतवेन व्याजेन । पुष्प उपपदे "धेट् पाने " इति धातो: "उग्रं -
पश्येरंमदपाणिन्धमाश्च " इति चकारादनुक्तसमुच्चयार्थादत्र खश्प्रत्ययः । "अरुद्रि
षदजन्तस्य मुम्" इति पुष्पपदस्य मुमागमश्च । [निलीय] तिरोधाय । [निभृतं]
निश्शङ्कं निर्भयं निरपत्रपं च सूर्योर्ध्वगतोत्तानगुच्छगतायाः सूर्याभिमुख्यसंभावनाया
एवाभावादिति भावः । निद्राति स्वपिति । निपूर्वात् "द्रा कुत्सायाम् " इति
धातोर्लट् । तरूणां छायावश्यंभावे सूर्यस्य तषण्डादधोगमनेन भूमौ छायाया
अदर्शनेन तेजोमयेषूपरितनलोकेष्वसंभवाच्च केयमगादिति विचारे तत्तच्छाया -
यास्तत्संबद्धाया एव दूरान्तिकयोर्गमनागमनयोः दृष्टचरत्वेन सर्वथा तरुसम्बद्ध्यैव
छायया भवितव्यमिति निश्चिते तदीयकुसुमस्तबकोदरगतेषु नीलतया छायासहक्षेषु
षट्पदेषु परिदृश्यमानेषु अन्यत्रोपचयापचयशालितया दृष्टशक्तिस्तरुच्छायैव किमु
कुसुमस्तबकमत्र्यगता विभातीति संभाव्यत इति भावः । छाया स्वपयाभिमुख्य-
परिजिहीर्षया एकान्तभूतकुसुमोदरेषु निलीना किमिति च व्यज्यते । अत्र षट्पदेप
तत्त्वमपहूनुस छायात्वारोपादपहवालङ्कारः ॥ ९१ ॥
11
८