This page has not been fully proofread.

७४
 
रुक्मिणीकल्याणे सव्याख्याने
 
भावः । अत्र नगर्यामद्भुतनिधित्वसंभावनादुत्प्रेक्षा । मणिप्रभाल्यां शृङ्खलात्वारोप-
रूपरूपकानुविद्वेति संकरः ॥ ८० ॥
 
शङ्के यदुत्तुङ्गशिरोगृहेषु कण्डूविनोदाय कषन् कपोलो ।
महेन्द्रदन्ती मदपङ्कलमैः सपको भाति सरोजराः ॥ ८१ ॥
 
शङ्क इति – महेन्द्रदन्ती ऐरावत: । यस्याः द्वारवत्याः उत्तुङ्गेषु उन्नतेषु
स्वर्लोकातिशायिध्विति भावः, शिरोगृहेषु चन्द्रशालासु । कण्डूविनोदाय कण्डूल्य-
पनोदनाय । कपोलौ निजगण्डदेशौ । कषन् वर्षयन् सन् । मदपङ्केषु मदजलकर्दमेषु
निजकपोलगतेष्वीषद्धनीभूतेष्विति भावः । लग्नैः संक्रान्तैः घर्षणाभिघातेन
स्थानभ्रंशमवाप्य कपोलमदपङ्कच्छुरितैरित्यर्थः । सरोजरागैः पद्मरागमणिभिः ।
सपद्मकः बिन्दुजालकोपेतः । "पद्मकं बिन्दुजालकम् " इत्यमरः । लोहिताकार-
बिन्दुजालमण्डित इवेति भावः । सपत्रक इति पाठे सपत्रकः पत्रकैः कपोल-
तललेखनीयकाश्मीरपत्राङ्कुरैरुपेत इवेत्यर्थः । भाति भासते। " भा दीप्तौ " इति
धातोट् । इतीति शेषः । इत्येवं श संभावयामि । अत्र स्वाभाविकाति-
लोहितबिन्दुजालोपलक्षिते मसृणतरघुसृणपरिकलितपत्राङ्कुरे वा दिव्यहस्तिनि
कण्डूविनोदार्थनिघृष्टद्वारवतीप्रासादप्रतिलग्नपद्मरागमणिमालामण्डितत्वसंभावनात्
उत्प्रेक्षा, कण्डूविनोदप्रवृत्तस्यानाशंसितमणिमालामण्डनलाभात् प्रहर्षणं, अप्रस्तु-
तकरिमण्डनादिना प्रस्तुतप्रासादानामद्भुतमणिगणखचितत्वप्रतीत्या अप्रस्तुतप्रशंसा,
ततश्च लोकार्तिशायिविभवातिशयप्रतीत्या चोदात्त:, असंबन्धे सम्बन्धवर्णनात्
सम्बन्धातिशयोक्तिश्चेति संसृष्टिसंकरौ चेति यथासंभवमूहनीयम् ॥ ८१ ॥
 
आरामसीमासु 'महीरुहाणामम्भोजवन्धौ विचरत्यधस्तात् ।
यत्रातपत्राणि यवहानां प्रायेण नु प्राभवचिह्नमात्रम् ।॥ ८२ ॥
 
आरामेति – यत्र द्वारवल्याम् । अम्भोजबन्धौ रवौ । आरामसीमासु उद्यान-
प्रदेशेषु । महीरुहाणां तरूणाम् । अत्युन्नततया स्वर्गातीतस्कन्धशाखोपेतानामिति
1 G. कपोले.
2 G. सपत्रको.
3 A', महीसुराणां.