This page has not been fully proofread.

प्रथमस्सर्ग:
 
७३
 
निजवनरक्षार्थ गङ्गाम्भसि निलीना वर्तते किमिति भावः । यद्वा यत्समृद्ध्या कर्या
तथेयमपि विनिर्जितामरावती वसूनां वसुनामकानामष्टानां देवविशेषाणामन्तः नगर-
मध्ये गोपनं भरणमेव, श्लेषमूलातिशयोक्त्या अन्तः रहसि वसुनो धनस्य गोपनं
प्रच्छादनं विजयिन्यै द्वारवत्या अप्रदानं तेन निमित्तेन वियत्तटिन्यां स्वर्गङ्गायां यः
प्रतिबिम्ब: स्वस्यास्तद्व्याजात् निमज्जितेव, कर्मणि क्तः, बलात्कृय सलिलनिमज्जनं
कारितेव निरीक्ष्यत इत्यर्थ: । बलिने दुर्बलेन प्रदेयबल्याद्यप्रदानेन यावता न
प्रयच्छति तावन्तं समयं सलिलनिमज्जनेन निश्वासोच्छ्वासप्रतिरोधनेन विहिंसनस्य
प्रसिद्धत्वादिति भावः । अत्र गोदके अमरावतीप्रतिफलनाव्यवसितं द्वारवतीका-
रितमजनं प्रति अमरावतीकृताष्टवसुधारणाव्यवसितधनगोपनस्य हेतुत्वप्रतीच्या
हेतूत्प्रेक्षा । प्रथमकल्पे तु गोपनस्य फलत्वप्रतीत्या फलोत्प्रेक्षा अपवाति-
शयोक्तिभ्यामुत्थापितेति सङ्करः ॥ ७९ ॥
 
अधो विसर्पन्मणिगोपुराग्रमणिप्रभालीमयशृङ्खलासु ।
व्यालम्बिता या वरणाभिगुप्ता निधिः किलास्ते' निखिला द्भुतानाम् ॥
 
अध इति – या द्वारवती । अध: अधोभागे भूतलादिप्रासादाग्रपर्यन्तस्य
कृत्स्नस्य नगरस्य पादस्थान इति भावः । विसर्पन्तीनां प्रसरन्तीनां मणिगोपुरा-
ग्रमणिप्रभाणां मणिमयानां इन्द्रनीलमणिविकाराणां गोपुरा ग्राणां पुरद्वारवर्याणाम् ।
"परार्थ्याग्रप्राग्रसरप्राग्राग्र्याग्रीयमग्रियम्" इत्यमरः । मणिप्रभाणां इन्द्रनीलमणिच्छ-
वीनां याः आल्यः पङ्क्तयः तन्मयासु तदात्मिकासु शृङ्खलासु निगलेषु कालाय
सीविति भावः । व्यालम्बिता निबद्धा । अथ च वरणै: प्राकारै: "प्राकारो
वरणस्साल: इत्यमरः । अभिगुप्ता रक्षिता । यथा नास्माद्देशादन्यत्रापसर्पति
तथा निरुद्वेत्यर्थः । निखिलानां समस्तानां अद्भुतानामाश्चर्याणाम् । विजातीय-
विभवौन्नत्यादिविविधमहातिशयानामित्यर्थः । निधिः किल शेवधिरिव । आस्ते
वर्तते । आस उपवेशने " इति धातोरात्मनेपदे लट् । अमानुषतया असंभा-
वितानि यानि यान्यद्भुतानीह परिदृश्यन्ते न तादृशान्यन्यत्र कापि दृश्यन्त इति
 
"
 
८८
 
"
 
• G. कलास्ते,
 
10