This page has not been fully proofread.

७२
 
रुक्मिणीकल्याणे सव्याख्याने
 
व्रजन्ती ।
 
पुङ्खानुपुङ्खस्फुरदात्मलक्ष्मीवीक्षाकृतेऽधोमुखतां
विभ्राजते वृत्रजित: पुरीव 'वियद्धुनीवीचिषु विम्विता या ॥७८॥
 
पुंखेति — वियद्भुन्या व्योमगङ्गाया वीचिषु तरङ्गेषु । बिम्बिता प्रतिफलिता ।
ऊर्ध्ववृतदर्पणप्रतिबिम्बितमुखादिवदधोमुखवदवभासमानेति भावः । या द्वारवती ।
पुङ्खानुपुङ्खं अविरळं यथा भवति तथा स्फुरन्त्या विलसन्त्या आत्मनः स्वस्याः
द्वारवत्या इत्यर्थः। लक्ष्म्याः शोभाया: वीक्षाकृते दर्शनाय । चक्षुषा साक्षात्कर्तुमिति
भावः । अधोमुखतां अवनतवदनतां वजन्ती प्राप्नुवन्ती । वृत्रजित: इन्द्रस्य ।
पुरी अमरावतीव । विभ्राजते विराजते । विपूर्बात् "भ्राजू दीप्तौ " इति
धातोरात्मनेपदे लट् । बिम्बप्रतिबिम्बयोरिव द्वारवतीदेवनगर्यो रँकरूप्यमिति
भावः । अत्र वियद्गङ्गाप्रतिफलितायां द्वारवल्यां तदीयापरिमितेश्वर्यावलोकनार्थावन-
तामरावतीतादात्म्यसंभावना स्वरूपोत्प्रेक्षा । यद्वा तथाविधायाः द्वारवत्याः
अवनतवदनामरावतीत्वेनाध्यवसिताया वदनावनमनं प्रत्यफलीभूतस्य द्वारवती-
शोभातिशयनिरीक्षणस्य फलत्वसंभावना फलोत्प्रेक्षा ॥ ७८ ॥
 
द्वारवत्यमरावत्योः बिम्बप्रतिबिम्बभाववर्णनाविगतममरावत्यां द्वारवती-
साम्यमसहमानः कल्पनान्तरमाह -
 
विनिर्जिता निर्जरराजधानी वियत्तटिन्यां प्रतिविम्वदम्भात् ।
निरीक्ष्यतेऽन्तर्वसुगोपनेन निमज्जितेवाम्बुनि यत्समृद्धया ॥ ७९ ॥
 
विनिर्जितेति -- यस्याः द्वारवयाः । समृद्रया विस्तारायमस्वादिपरिपू
साधनभूतयेत्यर्थः । विनिर्जिता पराजिता । निर्जरराजधानी अमरावती । वियत्त-
टिन्यां स्वर्गङ्गायाम् । प्रतिबिम्बदंभात् स्वप्रतिफलनमिति कपटात् । अम्बुनि जले।
अन्त: मध्यदेशे वसुन: धनस्य गोपनेन गुहनेन निमित्तेन । अपहारिकायाः
द्वारवत्याः सकाशादभिरक्षणायेत्यर्थः । निमज्जितेव भावे क्त: निमग्रोव निरीक्ष्यते
दृश्यते । निरुपसर्गपूर्वात् " ईक्ष दर्शने " इति धातोः कर्मण्यात्मनेपदे लट् । जनैः
इति शेष: । बलिना केनचित्पराभूतस्य तत्सकाशान्निजवनगोपनस्य प्रसिद्धतया
 
८८
 
" विस्वितायाः
 
1
 
धुनौ.