This page has not been fully proofread.

रुक्मिणीकल्याणे सव्याख्याने
 
अतिदीर्घाः एकैकलोकायामोच्छ्रिता इति भावः । सप्त सप्तसंख्याकाः भूमयः ।
तत्र तत्र सञ्चाराश्च [सञ्चाराश्रय] सौधतलानि येषु तादृशैः । भूमिशब्दान्तात् बहु -
व्रीहेः "कृष्णोदक्पाण्डुसंख्या पूर्वाया भूमेरजिष्यते " इति वार्तिकेन समासान्ताद -
च्प्रत्यय: । हम्र्यैः प्रासादैः साधनीभूतैरित्यर्थः । सर्वस्यापि हर्म्यस्य सत्यान्तो-
च्छ्रितत्वेऽपि सप्ततलोपलक्षिततया एकैकस्या भूमेरेकैकलोकविश्रान्ततया प्रतितलम-
संख्येयगवाक्षेषु शृङ्गोपेततया च स्वात्मनैव तत्तल्लोकभेदप्रपञ्चनक्षमैरिति भावः ।
चतुर्दशानां पाताळादिसत्यान्तानाम् । जगतां भुवनानाम् । अपास्त: परिहृतः सीमा-
विवादः लोकविश्रामप्रदेशविषयो व्यवहारः यैस्तादृशीव समेधते परिवर्धते । सप्त-
भूम्युपलक्षिततया ऊर्ध्वलोकसप्तकस्य तथा परिखाप्रतिबिम्बितप्रासादतयावस्त-
नातलादिलोकसप्तकस्य च बिम्बप्रतिबिम्बाभ्यां तत्तद्भेद परिज्ञानार्थनिर्मितेव भातीति
भावः । तत्तद्भुवनायामविशेषपरिज्ञानस्याफलस्य फलत्वकल्पनारूपा फलोत्प्रेक्षा ।
अन्त:स्फुरद्भिरित्यादिसाभिप्रायबहुतरविशेषणोपन्यासेन परिकरानुविद्वेति सङ्करः
 
॥ ७५ ॥
 

 
त्रिविक्रमस्यैकमधो निविष्टं त्रिविष्टपे चोच्छ्रितमन्यमङ्घ्रिम् ।
परिस्फुरन्ती परिखाजले यत्प्रासादपङ्क्तिः स्मरयत्युद्ग्रा ॥ ७६ ॥
त्रिविक्रमस्येति - उदग्रा उच्छ्रिता । आसल्यूलोकमुच्छ्रितेति भावः ।
यस्याः द्वारवत्याः प्रासादपङ्क्तिः सौधावलिः । परिखाजले खेयोदके । परिस्फुरन्ती
प्रतिबिम्बिता सती । त्रयः विक्रमा: पदविन्यासा यस्य तादृशस्य । प्रथमं वामनीभूय
स्वीयपदत्रयपरिमितां भुवमभियाच्य बलिना तथेति प्रतिश्रुते समनन्तरमेव
तन्मानाय सकललोकातिगामिनमेकं चरणमूर्ध्वमुत्क्षिप्तवतो हरेरिति भावः ।
अधः अधोभागे । निविष्टं विनियोजितम् । तद्वशीकृताधोभुवनाक्रमणाय प्रयोजितमिति
भावः । एकं अन्यतमम् । तथा त्रिविष्टपे स्वर्गे । ब्रह्माण्डखर्परपर्यन्तमिति भावः ।
उच्छ्रितं उन्नमितम् । अन्यं अधोगतादपरं च । अङ्घ्रि चरणम् । स्मारयति स्मर-
तेर्णिजन्ताल्लुटि " घटादयो मित: " इति मित्त्वे " मितां ह्रस्व : " इति ह्रस्वः ।
सदृशदर्शनस्य तत्सदृशवस्त्वन्तरस्मारकत्वादिति भावः । द्रष्टृनिति शेषः ।