2023-03-26 16:29:18 by ambuda-bot
This page has not been fully proofread.
शोणाधरा यन्मणिसौधभूमौ वीणागुणास्फालनलब्ध वर्णा ।
एणाङ्करेखाग्रहणाय यत्नं कोणाशया कोरकितं विधत्ते ॥ ७१ ॥
प्रथमस्सर्ग:
शोणेति – यस्या: मणिसौधभूमौ रत्नमयप्रासादतले । वीणायाः विपञ्च्या:
गुणानां तन्त्रीणामास्फालने तोलने लब्धवर्णा विचक्षणा । वीणावादनविचक्षणेत्यर्थः ।
"लब्धवर्णो विचक्षण: " इत्यमरः । शोण अधरो यस्यास्तादृशी । काचिद्वनितेत्यर्थः ।
कोण: वीणावादनसाधनकुटिलाग्रस्फाटिकदण्डविशेष इति आशया इच्छया । वीणा-
कोणत्वभ्रान्त्येत्यर्थः । "कोणो वीणादिवादनम्" इत्यमरः । यद्वा कोण इत्याशयोऽ-
भिप्रायो यस्यास्तादृशी सतीत्यन्वयः । एणाङ्कस्य चन्द्रस्य रेखायाः कलामात्रावशिष्ट-
चन्द्रखण्डस्य गतिवशात् सौधतलगतकामिनीकर परिसरमनुसृतस्येति भावः ।
ग्रहणाय आदानाय । यत्नं उद्यमम् । कोरकितं संजातकोरकम् । तदस्य संजातं
तारकादिभ्य इतच् " इति इतच्प्रत्ययः । फलोन्मुखमित्यर्थः । विधत्ते करोति ।
कलामात्र शिष्टतया वक्राकारतया धवळतया दन्तिदन्तादिकृतवीणाकोणसाम्याच्चन्द्र-
कलायामबाधितकोणत्वभ्रान्त्या तत्संग्रहणोद्यताभूदिति भावः ॥ ७९ ॥
८८
कोकारिरेखागणिकोणयष्ट्या निकाणयन्त्यो निपुणं विपञ्चीम् ।
सुधा तन्त्र स्वरविष्ठवेन सौधेषु यस्यां सुदृशस्त्रपन्ते ॥ ७२ ॥
1 वर्णाः
८८
कोकेति -- यस्याम् । सौधेषु हर्म्येषु । सुदृशः: वनिताः । कोकारेश्चन्द्रस्य
रेखया कल्यैव मणिमय्या हीरक स्फटिकादिकृतया कोणयष्टया वीणावादनदण्डेन ।
विपञ्च वीणाम् । निपुणं चतुरतरं यथा तथा । स्वरविकृतौ संपन्नायां वादनाचातुर्य-
कृतत्वबुद्ध्या पुनःपुनः साधुतयेति भावः । निक्काणयन्त्यः वादयन्त्यः सत्यः । सुधया
अमृतेन तन्त्रीसंघृष्टचन्द्रकलोद्गतयेति भावः । आर्द्राणां क्लिन्नानाम् । "आई सान्द्र
क्लिन्नम्" इत्यमरः । तन्त्रीणां वीणागुणानां स्वराणां निषादादीनां विप्लवेन व्यत्यासेन
वैकृतेनेत्यर्थः । तन्त्र्यां सलिलक्किन्नायां स्वरविकृतेरानुभाविकत्वादिति भावः । त्रपन्ते
विलज्जिता भवन्ति । "त्रपूषू लज्जायाम्" इति धातोर्लट् । पुनः पुनः समञ्जसवाद-
नेऽपि सुस्वरानुत्पत्तिनिमित्तजिज्ञासायां सलिलसेकस्य तन्निदानत्वमववार्य तदुत्पत्ति
0
६७
2
तन्त्रिस्वर.