This page has not been fully proofread.

६६
 
रुक्मिणीकल्याणे सव्याख्याने
 
नाय स्वसंपदः परिज्ञातत्वेन इतरसंपन्निरीक्षणेन द्वयोस्तारतम्यपरीक्षार्थमिति भावः ।
प्रसारितां प्रेरिताम् । कटाक्षाणामपाङ्गवीक्षणानां रेखां पङ्क्तिमेव । मन्ये
अवगच्छामि। नयनस्य प्राप्यकारितया तस्यादृश्यत्वेऽपि तज्जनितस्य खण्डचक्षुः-
प्रसरस्य तततैलान्तर्गतादृश्यदहनोत्थितज्वालाया इव न हि दृश्यत्वविरोध इति
भावः । अत्र सौधतोरणमालासु परस्परभाग्यपरीक्षार्थकभवनेन्दिराकटाक्षमाला-
तादात्म्यसंभावना स्वरूपोत्प्रेक्षा ॥ ६९ ॥
 
'मायो वलारे: परिपन्थिवर्गे पराजिते यत्र 'नृपप्रतापैः ।
चकार वेधा हरिचाप वल्लीं चञ्चन्मणीतोरणदाम सौधे ॥ ७० ॥
 
प्राय इति – वलारे: इन्द्रस्य । परिपन्थिवर्गे वैरिबृन्दे । नृपप्रतापैः द्वारका-
निवासिभूपतेजोभिः । पराजिते परिभूते सति । इन्द्रस्य योद्र्व्याभावेन तदर्थनिर्मित-
चापस्य नैफल्यसंभावनायां सत्यामिति भावः । वेधाः स्वनिर्मितचापसाफल्य-
'संपादनेच्छुरिति भावः । हरिचापवल्ली इन्द्रधनुर्लताम् । यत्र द्वारवत्याम् । सौधे
प्रासादे । चञ्चन्मणीमयं तरळरत्नपरिकलितं तोरणदाम नगरबहिरवैजयन्तीमाला-
रूपाम् । प्राय: प्रायेण । चक्रे विदधे । तत्साफल्याय तोरणाग्रे न्यस्तवान् किमिति
भावः । अत्र द्वारवतीतोरणमालायां रेखाकारस्वसजातीयनानावर्णविभ्राजित-
तया तथाविधेन्द्रचापगतवर्मसम्बन्धनिमित्तेन द्वारवतीनृपतेजः पराभूतवैरिकतया
निष्फलत्वज्ञानवत्वेनाव्यवसितब्रह्मणा सफलत्वप्रापणेच्छया द्वारवतीगोपुराग्र-
विन्यस्तेन्द्रचापतादात्म्यसंभावना वस्तुस्वरूपोत्प्रेक्षा । यद्वा इन्द्रचापत्वेनाव्यव-
सितायास्तोरणमालाया: ब्रह्मकृतत्वेनाध्यवसितां सौधाग्रविन्यसनक्रियां प्रति
द्वारवतीगतनृपकृतासुरपराजयस्य महेन्द्रधनुषो नैफल्यबुद्धयुत्पादनद्वारा हेतुत्वस्य
सतिसप्तम्या प्रतीयमानतया हेतूत्प्रेक्षा । यद्वा नानाविधरत्नकरणकशिल्पिकर्तृक-
गोपुरतोरणविन्यसनक्रियायां निरुक्तब्रह्मकर्तृकेन्द्रधनुर्विन्यसनक्रियातादात्म्यसंभा-
वना क्रियास्वरूपोत्प्रेक्षा ॥ ७० ॥
 
1 प्रायोऽचलारे:
 
3
 
नृपः
 
2 पलायिते.
वल्लीचञ्चत्.
 
4