This page has not been fully proofread.

प्रथमस्सर्ग:
 
६५
 
विहारवर्णनात् सौधानां निखिलातिशायिरामणीयकं व्यज्यते । अत्र सिद्धश्रमा-
पनयनरूपव्यजनकार्यस्य तत्सदृशध्वजपटपवनेनैव संपत्त्या उपमानाक्षेपरूपः
प्रतीपालङ्कारः ॥ ६७ ॥
 
प्रत्युप्तमुक्ताफलकैतवेन प्रस्वेदिनी भास्करसन्निधानात् ।
प्रासादपङ्क्तिः प्रचलत्पताकाव्याजादुदञ्चद्व्यजनेव यस्याम् ॥ ६८ ॥
 
प्रत्युप्तेति – यस्यां द्वारवत्याम् । प्रासादपङ्क्तिः हर्म्यावलिः । भास्करसन्नि-
वानात् सूर्यसान्निध्यानिमित्तात् । प्रत्युप्तानि निचितानि मुक्ताफलानि फलाकार-
मौक्तिकानीति कैतवेन छद्मना । प्रस्वेदिनी प्रष्टस्वेदवती । प्रचलन्तीनां चञ्चलानां
पताकानां ध्वजपटीनां व्याजात् कपटात् । उदञ्चत् उच्चलितं व्यजनं तालवृन्तं
यस्यास्तादृशीव ! भातीति शेष: विभाव्यत इत्यर्थः । अत्र प्रचलत्पताकासु
तदसत्यत्वप्रतिपादकव्याजपदेन तत्त्वमपहूनुत्य प्रचलव्यजनत्वमारोप्य तदारब्धं
प्रासादपङ्क्तिकृतव्यजनोदञ्चनं प्रति भास्करसान्निध्यहेतुकतयाध्यवसितस्य प्रत्युप्त-.
मौक्तिकेषु तथात्वं कैतवपदेनापनुत्य तदारोपितस्वेदातिशयस्य हेतुत्ववर्णनात्
हेतूत्प्रेक्षा कैतवापह्नुतिगर्भा हेतूत्प्रेक्षोत्थापिता च ॥ ६८ ॥
 

 
मन्ये मणी तोरणमालिकां यत्प्रासादलोलां भवनेन्दिराभिः ।
परस्परं भाग्यविलोकनाय प्रसारितामेव कटाक्षरेखाम् ॥ ६९ ॥
 
-
 
मन्य इति – यस्याः द्वारवत्याः प्रासादेषु हर्म्येषु लोलां विचलन्तीम् ।
प्रतिभवनं एकतर श्रेणीप्रासादाग्रमारभ्य तदभिमुखश्रेण्यन्तरसदनसौधाग्रपर्यन्त-
निद्धां पवनगतिवशात् विचलन्तीमिति भावः । मणीतोरणमालिकां इन्द्रनील-
मणिमयमकरतोरणमालाम् । जातावेकवचनं प्रतिभवननिबद्धतोरणामिति भावः ।
भवनेन्दिराभिः तत्तन्मन्दिराधिदेवताभिः । परस्परं अन्योन्यम् । " कर्मव्यतीहारे
सर्वनाम्नो द्वे वाच्ये" इति द्विरुक्तौ सर्वनाम्न उत्तरपदे समाससद्भावे च पूर्वपदस्थस्य
"सुपरसुव्वक्तव्यः" इति सुपःस्वादेशे परस्परम् । भाग्यानां संपदां विलोकनाय दर्श-
1
 
वन्दन.
 
9