This page has not been fully proofread.

६४
 
रुक्मिणीकल्याणे सव्याख्याने
 
नील्या मलेन विलिप्ता: मिश्रिताः । पताका : वैजयन्ती: कर्म । महेन्द्रबिरुदरूपतया
तदीयगजमस्तकोपरि धार्यमाणतया पवनचालनवशात् तदीयगण्डगतमदपङ्क-
संकलनेन मलिनीकृता इति भावः । सौधेषु प्रासादेषु स्वर्गगासदेशगतेषु निर्मल-
स्फटिकशिलाफलकरचितेषु इति भावः । सुरसिन्धोः वियद्गङ्गायाः पूरे प्रवाहे ।
विशोध्य प्रतिपदं गङ्गायां संसिच्य । सौधशिलास्वभिहत्येति भावः । विशदीकरोति
निर्मलीकुरुते । असकृत्सेचनाभिहननरूपेण धावनकर्मणा पङ्कमालिन्यम
पनयतीति भावः । अविशदं विशदं करोतीति विशदशब्दात् " कृभ्वस्ति
योगे संपद्य कर्तरि च्वि: " इति अभूततद्भावे च्विप्रत्यये "अस्यच्चौ " इतीत्वे
"ऊर्यादिच्चिडाचश्च" इति गतिसंज्ञया "कुगतिप्रादयः" इति तिङन्तेन समासे
विशदीकरोतीति भवति । नियतं निश्चितम् । अत्र द्वारवतीसौधपताकासु पवनचाल -
नवशादसकृन्निकटस्थगङ्गोदके सौधशिलासु च संबद्धासु गजमस्तकोपरि
धारणवशोपनतमदपंकमालिन्यापनोदनार्थवातवाव्यमानेन्द्रपताकातादात्म्याध्यव
सायाद्वस्तुस्वरूपोत्प्रेक्षेति केचित् ।
 
वस्तुतस्तु पताकागतायामसकृत् गङ्गोदकसौध शिलाघट्टनक्रियायामेव
पवनकृतमहेन्द्र पताकाधावनात्मकक्रियातादात्म्यसंभावनाक्रियास्वरूपोत्प्रेक्षैव ।
उभयत्र विषयस्य सौधपताकायास्तच्चालनरूपक्रियायाश्चानुपादानादनुक्तविषया
॥ ६६॥
 
मन्दाकिनीबीचिमरुत्प्ररोहदोधूयमानध्वजशाटिकासु ।
 
यच्चन्द्रशालासु न यान्ति सिद्धा यत्नं रतान्ते व्यजनानिलाय ॥ ६७ ॥
 
मन्दाकिनीति –– मन्दाकिनीवीचीनां वियद्गङ्गातरङ्गाणां मरुत्प्ररोहै:
पवनाङ्कुरै: शैत्यसौरभ्यमान्द्यसंयुतैरिति भावः । दोधूयमानाः प्रकंप्यमानाः
ध्वजशाट्य: यासु तादृशासु । "धूञ् कंपने " इति धातोर्यङन्तात् कर्तरि शानच् ।
यस्या द्वारवल्याश्चन्द्रशालासु शिरोगृहेषु । सिद्धाः । यदीयसौधेषु वनिताभिस्समं
संक्रीडमाना वैमानिका देवयोनिविशेषा इत्यर्थः । रतान्ते सुरतावसाने । रतिश्रम-
जातस्वेदशमनार्थं पवनसंवलनमाकांक्षमाणा इति भावः । व्यजनानिलाय ताळवृन्त-
पवनाय । यत्नं उद्यमम् । न यान्ति न प्राप्नुवन्ति । सकलभुवनचारिणामन्यत्रैव