2023-03-26 16:29:17 by ambuda-bot
This page has not been fully proofread.
प्रथमस्सर्गः
लाञ्छनं प्रति सुदतीमुखशोभाध्यवसितसंपदपहारकृतध्वजरू पशूलारोपणस्य
कविकल्पितस्याहेतोः हेतुत्वप्रतीत्या हेतूत्प्रेक्षा । सा चातिशयोक्तिरूपकानुविद्वेति
संकरः ॥ ६० ॥
रयानुधावविवाजिवलगत्खुरायशर्यत्कुरुविन्दशङ्काम् ।
पुष्णन्ति तद्गोपुरशृङ्गभूमौ पूषोपलेभ्यः स्फुरिताः स्फुलिङ्गाः ॥ ६१ ॥
रयेति–तस्यां द्वारवत्याम् । गोपुरद्वाराणां प्रासादानामिति भावः । शृङ्गभूमौ
शिखरप्रदेशे । पूषोपलेभ्य: सूर्यकान्तमणिभ्य: प्रासादाग्रसंघटितेभ्य इति भावः ।
स्फुरिता: उद्गताः । स्फुलिङ्गा: अग्निकणा: । रविकिरणसंपर्कान्निर्गताः इति भावः ।
रयेण जवेन "रंहस्तरसी तु रय: स्यदः" इत्यमरः । अनुधावतां प्रधावतां रविवाजिनां
सूर्याश्वानां वल्गद्भिः घटमानैः खुराग्रैः शफकोटिभिः शीर्यन्तः विशीर्यमाणाः
कुरुविन्दाः प्रभाधिकाः पद्मरागविशेषा इति शंकां संभावनाम् । पुष्णन्ति
अभिवर्धयन्ति । " पुष पुष्टौ " इति धातोर्लट् । गोपुराणामत्युच्छ्रितत्वेन तत्र
सूर्याश्वखुरकुट्टनस्य तथा प्रासादानां महार्वमणिनिर्मितत्वेन तथाविधरत्नखण्डनस्य
च तादृश्या भावनायाः संभावितत्वादिति भावः । उत्प्रेक्षोदात्तयोः संसृष्टि: ॥६१ ॥
शीताळुभिर्यत्र शिरोगृहेषु गाढं कुमारैर्घटितर्गळेषु ।
तारासु रुद्धासु चिरं तमिस्रा मन्ये 'हिमर्तावभवन्महत्यः ॥ ६२ ॥
शीताळुभिरिति —- यत्र द्वारवत्याम् । हिमतौं हेमन्ते । शीताळुभि: शीतम-
सहमानैः । "शीतोष्णाभ्यां तदसहने " इत्याळुच्प्रत्ययः । कुमारैः बालैः । नक्षत्र-
मार्गातिगामिसौधतलशायिभिरिति भावः । शिरोगृहेषु चन्द्रशालासु । सौधवाता-
यनकवाटेध्विति भावः । गाढं अशिथिलं यथातथा । घटिता योजिता अर्गळा:
कवाटविष्कम्भा येषु तादृशेषु सत्सु । अविरळदक्षिणोत्तरश्रेणीरूपतया ऊर्ध्वाधः-
पार्श्वेषु मार्गान्तररहितेविति भावः । अतएव तारासु उडुषु । चिरं घटिकाद्व-
यादिकालम् । रुद्रासु प्रतिहतगमनासु । पिहितवातायनोद्घाटनावसरप्रतीक्षणेन
विळम्बितास्विति भावः । न पुनः सर्वथा निरुद्धा स्विति तथासति शीतभीति [कृत]
2
1 A.
ताररेषु-तारतेषु.
यत् .
3
[ भि.