This page has not been fully proofread.

रुक्मिणीकल्याणे सव्याख्याने
 
विधप्रासादपर्यङ्कशायिन्य इति भावः । शशाङ्के चन्द्रे । गतिवशात् स्वपर्यङ्कमागत
इति भावः । गण्डोपधानभ्रमतः कपोलविन्यसनार्हवृत्ताकारोपबर्हणभ्रान्त्येत्यर्थः ।
कपोलौ गण्डस्थले । तन्वन्ति विन्यसन्ति इत्यूह्यत इति भावः । कुत एतदिति
चेदत्राह । तत् तस्मात् । कपोलविन्यासादेव हेतोः । अत्र चन्द्रे कस्तूरिकया
मृगमदद्रवेण रचितं चित्रकं विशेषकं मकरिकादिपत्ररेखेति यावत् अङ्क: लाञ्छन-
मिति दम्भात् कपटात् । लग्नं सम्बद्रम् । अद्यापि दृश्यत इति भावः । कथमन्यथा
अत्युच्छ्रिते चन्द्रमण्डले मालिन्यप्रसक्तिरिति भावः । अत्र चन्द्रगतमङ्कमपनुल्य
तदारोपितेन कस्तूरिकाचित्रकरूपकार्येण तत्करणीभूतस्य चन्द्रमार्गगतसौध-
तलशयितकामिनीकृतस्य चन्द्रे गण्डोपधानत्वभ्रान्तिकृतस्य कस्तूरीमकरि-
काङ्कितस्वकीयकपोलविन्यसनरूपकारणस्यानुमानादनुमानालंकारः । स च कार्य-
कोटावपहूनुत्या कारणकोटौ भ्रान्तिमता चानुप्राणित इति संकरः ॥ ५९ ॥
सौधेषु यस्यां सुदतीमुखश्रीचौर्यादवाप्तव्वजशूलपातः ।
विधुस्सुधावैभववीतबाधः 'किणं बिभर्ति व्रणजं किमकम् ॥ ६० ॥
 
६०
 
"
 
सौधेष्विति – यस्यां द्वारवत्याम् । विधुश्चन्द्रः । सौधेषु हर्म्येषु । स्वीयमार्ग-
वर्तितया प्रतिदिवस परिशीलितेष्विति भावः । सुदतीनां वनितानाम् । "वयसि
दन्तस्य दतृ " इति दत्रादेशः । "उगितश्च " इति ङीप् । मुखश्रियः वदनशोभायाः
संपदश्च । चौर्यात् अपहारात् निमित्तात् । अवाप्तः प्राप्तः स्वापराधानुगुणदण्डरूप -
तया प्रतिपन्न इत्यर्थ: । व्वज: केतुदण्ड एव शूलं महासाहसिकं वधार्ह वध्यस्य
पादादिमूर्धान्तान्तःप्रवेशानुगुणतीक्ष्णाग्रायसदण्डविशेष: तस्मिन् पात: आरोपणं
ग्रेन तादृशः तथाभूतोऽपि सन्निति भावः । सुधायाः स्वकीयामृतस्य वैभवेन
महिम्ना मृतसंजीवनशक्तिविशेषेणेति भावः । वीता अपगता बाधा शूलारोपण-
जनिता पीडा यस्य तादृशश्च सन् । कथमन्यथा शूलारोपितस्य पुनरुज्जीवनमिति
भावः । व्रणजं शूलखातव्रणसंजातम् । किणं व्रणविरोपणकठिनमेचकचर्मविशेषम् ।
अङ्कं चिह्नं शूलारोपणसूचकमित्यर्थः । विभर्ति किं धत्ते किमु । "डुभृञ् धारण-
पोषणयो: " इति धातोर्लट् । अत्र चन्द्रमण्डलगतं व्रणकिणाङ्कतयाव्यवसितं
 
2 G. कणं.
 
1. A, G. सुमुखी.