This page has been fully proofread once and needs a second look.

अञ्चन्त्यः संमिलन्त्यः प्ररूढा इति यावत् । जलनील्य: शैवालानि येषु तादृशानि । मन्ये अवैमि । स्वर्गङ्गासंगसंगतशैवलवत्तया विभावयामीति भावः । अत्रेन्द्रनीलशिलाकृतत्वेन श्यामत्वचाकचक्यादिविशिष्टेषु सौधाग्रेषु सन्ततगङ्गासंगजनितशैवलसंवलितत्वरूपधर्मोत्प्रेक्षा ॥ ५७ ॥
 
व्रीडातिरेकाद्विनमन्मुखीनां कन्यामणीनां परिणीतिकाले ।
[^1]हर्म्येषु यस्यामतिलङ्घिताभ्रेष्वास्त ध्रुवालोकनमप्रयासात् ॥ ५८ ॥
 
व्रीडेति — यस्यां द्वारवत्याम् । परिणीतिकाले विवाहसमये । प्रवेश- होमोत्तरवाङ्नियमनान्ते "आनक्षत्रेभ्य उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्कम्य उत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्शयति[^2]" इति विहितध्रुवप्रदर्शनावसर इति भावः । ब्रीडातिरेकात् लज्जातिशयात् । विनमन्ति स्वयमेवावनतानि मुखानि वदनानि यासां तादृशीनाम् । "स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्" इति ङीष्प्रत्ययः । कन्यामणीनां कुमारीतिलकानाम् । ध्रुवालोकनं तत्कालकर्तव्यतया विहितं ध्रुवदर्शनम् । अतिलङ्घितं अतिक्रान्तं अभ्रं गगनं यैस्तादृशेषु । गगनान्तःपातिध्रुवमण्डला तीतेष्विति भावः । हर्म्येषु प्रासादेषु । अप्रयासात् अनायासेन । ध्रुवस्य
तस्मादधोभावितया लज्जाविघूननेन मुखोन्नमनादिक्लेशं विनैवेति भावः । आस्त अभूत् । "आस उपवेशने " इति धातोरात्मनेपदे लड् । इत्थं ध्रुवदर्शने संपन्ने तस्मादधोगताया अरुन्धत्या दर्शनं कैमुत्यन्यायाल्लभ्यत इति भावः । अत्युक्तिरलङ्कारः ॥ ५८ ॥
 
सौधेषु यस्यां सुदृशः शशाङ्के गण्डोपधानभ्रमतः कपोलौ ।
तन्वन्ति रात्रीषु तदङ्गलग्नं कस्तूरिकाचित्रकमङ्कदंभात् ॥ ५९ ॥
 
सौधेष्विति - यस्यां द्वारवत्याम् । सौधेषु प्रासादेषु । रात्रिषु निशासु ।
सुदृश: शोभना विषयग्रहणचतुरा इत्यर्थः दृश: यासां तादृशाः वनिताः । तथा-
 
 
[^1] सौधेषु ।
 
[^2] In the printed edition of the Apastamba Gṛhya Sutra the portion आ नक्षत्रेभ्य: belongs to sutra 11 of kanda 6 and the other portion is found as sutra 12.