2023-04-09 16:44:22 by jayusudindra
This page has been fully proofread once and needs a second look.
यस्याः समायोजितखेयकाञ्चे[^1] रुड्याणमुद्दाममवैमि सालम् ।
रत्नार्गला [^2]रंभितरम्य[^3]कीलमुखं मणीगोपुरमप्यमुष्य[^4] ॥ ५६ ॥
यस्या इति – समायोजिता सर्वतोनिबद्धा खेयं परिखैव काञ्चि: मेखला
नितम्बधार्यभूषाविशेषः यस्यास्तादृश्याः । "खेयं तु परिखाधारस्तु" इति, "स्त्रीकट्यां मेखला काञ्ची " इति चामरः । यस्याः द्वारवत्याः मेखलालंकरणे अनुपदमुङ्याणापेक्षासंभवादिति भावः । उद्दामं उच्छ्रितम् । सालं प्राकारं कर्म । उड्याणं मेखलोपरि मध्यधार्यभूषाविशेषम् । तद्रूपमयमिति भावः । तथा मणीगोपुरं मणिमयं पुरद्वारसौधमपि । "पुरद्वारं तु गोपुरम्" इत्यमरः । अमुष्य उड्याणस्य । रत्नमय्या अर्गळया कवाटविष्कंभेन आरम्भितं संपादितं रत्नार्गळारूपमिति भावः । रम्यं रमणीयं कीलं भूषासन्धिघटन विघटनानुकूलशङ्कुविशेषः यस्य तादृशं मुखभागं कोटिद्वयसंघटनार्ह-
रत्नादिमण्डितभूषाग्रभागमिति भावः । अवैमि मन्ये, उड्याणत्वेन तन्मुखत्वेन च संभावयामीत्यर्थः । अवपूर्वात् " इण् गतौ" इति धातोर्लट् । अत्र परिघात्मककाञ्चीधारिण्या नगरीयुवत्या उड्याणतादात्म्यस्य साले तथा रत्नार्गळाख्यकीलोपलक्षितोड्याणमुखभागतादात्म्यस्य मणिगोपुरे च संभावना स्वरूपोत्प्रेक्षा पूर्वा खेयस्य काञ्चीत्वरूपणेन नगर्या नारीत्वरूपणाभिव्यक्तिरूपैकदेशविवर्तिसावयवरूपकोत्थापिता द्वितीया
त्वर्गलायां कीलत्वारोपरूपरूपकोत्थापितेति रूपकसंकीर्णयोरनयोः संकरः ॥
मन्ये मरुत्वन्मणिनिर्मितानि शिरोगृहाणां शिखराणि यस्याम्[^5] ।
वियन्नदीवीचिभरानुषङ्गादजस्त्रमञ्चज्जल [^6]नीलिकानि ॥ ५७ ॥
मन्य इति – यस्यां द्वारवत्याम् । मरुत्वन्मणिभिः इन्द्रनीलरत्नैः निर्मितानि
रचितानि । शिरोगृहाणां चन्द्रशालानाम् । शिखराणि शृङ्गाणि कर्म । अजस्रं अनवरतं अविच्छेदेनेति यावत् । वियन्नद्याः स्वर्गङ्गायाः वीचिभरैः तरङ्गपरंपराभिः सह अनुषङ्गात् संसर्गात् निमित्तात् । प्रासादानां स्वर्गातिशायित्वादिति भावः ।
[^1] उञ्चान.
[^2] लम्बित.
[^3] कीलं मुखम्.
[^4] अमुष्याः,
[^5] यस्याः
[^6] नीलितानि.