This page has been fully proofread once and needs a second look.

५८
 
. रुक्मिणीकल्याणे सव्याख्याने
 
यस्याः समायोजितखेयकाञ्चे[^1] रुड्याणमुद्दाममवैमि सालम् ।

रत्नार्गला [^2]रंभितरम्य' [^3]कीलमुखं मणीगोपुरमप्यमुष्य[^4] ॥ ५६ ॥
 
८८
 

यस्या इति – समायोजिता सर्वतोनिबद्धा खेयं परिखैव काञ्चि: मेखला

नितम्बधार्यभूषाविशेषः यस्यास्तादृश्याः । "खेयं तु परिखाधारस्तु" इति, "स्त्रीकट्यां
मेखला काञ्ची " इति चामरः । यस्याः द्वारवत्याः मेखलालंकरणे अनुपदमुङ्याणा-
पेक्षासंभवादिति भावः । उद्दामं उच्छ्रितम् । सालं प्राकारं कर्म । उड्याणं

मेखलोपरि मध्यधार्यभूषाविशेषम् । तद्रूपमयमिति भावः । तथा मणीगोपुरं
मणिमयं पुरद्वारसौधमपि । "पुरद्वारं तु गोपुरम्" इत्यमरः । अमुष्य '
उड्याणस्य । रत्नमय्या अर्गळया कवाटविष्कंभेन आरम्भितं संपादितं
रत्नार्गळारूपमिति भावः । रम्यं रमणीयं कीलं भूषासन्धिघटन विघटनानुकूल-
शङ्कुविशेषः यस्य तादृशं मुखभागं कोटिद्वयसंघटनार्-
रत्नादिमण्डितभूषाग्र-
भागमिति भावः । अवैमि मन्ये, उड्याणत्वेन तन्मुखत्वेन च संभावयामीत्यर्थः ।
अवपूर्वात् " इण् गतौ" इति धातोर्लट् । अत्र परिघात्मककाञ्चीधारिण्या नगरी-
युवत्या उड्याणतादात्म्यस्य साले तथा रत्नार्गळाख्यकीलोपलक्षितोड्याणमुख-
भागतादात्म्यस्य मणिगोपुरे च संभावना स्वरूपोत्प्रेक्षा पूर्वा खेयस्य काञ्चीत्वरूपणेन
नगर्या नारीत्वरूपणाभिव्यक्तिरूपैकदेशविवर्तिसावयवरूपकोत्थापिता द्वितीया

त्वर्गलायां कीलत्वारोपरूपरूपकोत्थापितेति रूपक संकीर्णयोरनयोः संकरः ॥
 

मन्ये मरुत्वन्मणिनिर्मितानि शिरोगृहाणां शिखराणि यस्याम्' ।
[^5] ।
वियन्नदीवीचिभरानुषङ्गाद स्त्रमञ्चज्जल ' [^6]नीलिंलिकानि ॥ ५७ ॥
 

मन्य इति – यस्यां द्वारवत्याम् । मरुत्वन्मणिभिः इन्द्रनीलरतैःत्नैः निर्मितानि

रचितानि । शिरोगृहाणां चन्द्रशालानाम् । शिखराणि शृङ्गाणि कर्म । अजस्रं
अनवरतं अविच्छेदेनेति यावत् । वियन्नद्याः स्वर्गङ्गायाः वीचिभरैः तरङ्गपरंपराभिः
सह अनुषङ्गात् संसर्गात् निमित्तात् । प्रासादानां स्वर्गातिशायित्वादिति भावः ।
 

 
 
[^1]
द्याञ्चान.

[^2] लम्बित.
[^3] कीलं मुखम्.
[^4]
अमुष्याः,
 
2 लम्बित.
 

[^
5
 
] यस्याः,
 
3 कील
 
मुखम् .

[^
6] नीलितानि.