This page has been fully proofread once and needs a second look.

वृद्धिकरी सकलाभ्युदयस्थानभूता । विख्यातेः प्रसिद्धेः विस्तारोऽतिशय स्सोऽस्या इति तादृशी । अतिप्रसिद्धिशालिनीत्यर्थः । विख्यातेति पाठे विख्यातः प्रसिद्धः विस्तारः परिणाहः सोऽस्या इत्यर्थः । अतिविशालतया जगत्प्रथितेति भावः । पुरी नगरी । जगत्यां भुवने । द्वारवतीति प्रकृष्टद्वार शालिनी इति । एवं अखिलनगरातिशायिताष्टादशद्वारोपलक्षिततयेत्यर्थः । अभिख्यां अन्वर्थनामधेयम् । वितन्वती विस्तारीकुर्वाणा सती । अस्ति वर्तते । भगवतो वैकुण्ठगमनानुपदमेव सामुद्रसलिलाप्लुतत्वेऽपि सकल नगरातिशाय्यपरिमितविभवोपलक्षिततयातिप्रख्यातिमत्तया "नरः पतित कायोऽपि यशःकायेन जीवति " इति न्यायेन प्रसिद्धतयाद्यापि परिदृश्य मानेव प्रतीयत इति भावः । तेन भूतभाव्यर्थसाक्षात्काररूपभाविकालंकारः
प्रतीयते । छेकानुप्रासरूपकसंसृष्टिः ॥ ५४ ॥
 
वसुन्धरायां वसुधाधिनाथै: [^1]सुखं धृतायां [^2]सुचिरं यदीयैः ।
प्राकारदंभात्परिखापथेन प्राप्तस्समुछ्वासकृते फणीन्द्रः ॥ ५५ ॥
 
वसुन्धरायामिति -- यदीयैः द्वारवतीसम्बन्धिभिः । तन्निवासिभिरित्यर्थः ।
वसुधाधिनाथैः भूपैः । वसुन्धरायां भूमौ । सुखं अनायासेन स्वेतरपालकान- पेक्षमिति भावः । सुचिरं बहो: कालात् । धृतायां पालितायामित्यर्थः । फणीन्द्रः शेषः निखिलभूभरणाधिकृत इति भावः । समुछ्वासकृते विश्रमाय। परिखैव खेयमेव पन्थाः मार्ग: तेन । परिखाया आपाताळव्यापित्वादिति भावः । परितः खन्यत इति परिखा। "अन्येष्वपि दृश्यते" इति उप्रत्ययः । प्राकारो वरणः इति दंभात् कपटात् । "कपटोऽस्त्रीव्याजदंभोपधयः" इत्यमरः । प्राप्तः समागतः भुवमिति भावः । चिरात् भूभरणखिन्नो यत्र क्वचिन्निजभारावतरणमाशासानस्संप्रति भारापनये संपन्ने गुहारूपं स्वावा- समपहायातिविस्तृतां प्रवातादिना विश्रमार्हो भुवमुत्पतितश्शेष एवायमिह
कुण्डलितेन पुनः प्राकार इति भावः । अत्र राजकृतभरणे सुखमिति शेषा- गमने समुच्छ्वासकृत इति कथनादत्रत्यभूपानां शेषादाधिक्यप्रतीत्या व्यतिरेको व्यज्यते । नगरप्राकारे तथात्वं दंभपदेनापह्नुत्यात्युन्नतत्वधवळ त्वकुण्डलाकारत्वादिधर्मसाम्येन भूभारवहनसंपन्नश्रमापनोदार्थागत- फणीन्द्रत्वारोपादपह्लवालंकारः ॥५५॥
 
 
[^1] G. चिरम् ,
[^2] G. रुचिरम् .