2023-04-09 14:32:14 by jayusudindra
This page has been fully proofread once and needs a second look.
इत्थं राजानं निर्दिश्य तदनुबद्धतया देशकालौ प्रेक्षावत्प्रवृत्तयेऽनुबन्ध-
चतुष्टयं चोपदर्शयन् चिकीर्षितं प्रतिजानीते-
अध्यास्य तञ्जानगरीममुष्मिन्सर्वंसहां शासति सार्वभौमे ।
श्रीराजचूडामणियायजूकश्चित्रं निबध्नाति हरेश्चरित्रम् ॥ ५३ ॥
अध्यास्येति – अमुष्मिन् रघुनाथभूपे सार्वभौमे सर्वभूमीश्वरे तञ्जानगरीं
तञ्जाख्यासुरविरचितत्वेन तन्नाम्ना प्रथितां नगरीं पुरीं अध्यास्य उषित्वा सर्वं- सहां भूमिं शासति रक्षति सति तेन तदाधिपत्योपलक्षितः षट्शताधिकवर्ष- चतुस्सहस्रकलिव्यापनात्मकः कालः, तञ्जापुरीति देशश्च प्रतिपादितः ।
राजा चन्द्र: चूडामणिः किरीटं यस्येति चन्द्रचूडस्य प्रतिनिर्देशतया राज्ञां चूडामणिः किरीटं तद्वत् शिरसोपलालित इत्यर्थः । राजचूडामणिरिति यायजूकः अनवरतयजनपरः। "इज्याशीलो यायजूक: " इत्यमरः । यजते: पौन:पुन्यार्थे यङन्तात् "यजजपदशां यङ: " इति कर्तरि ऊकप्रत्ययः । तेन प्रबन्धकर्तुर्निदे[र्दे]शः कृतः। चित्रं विस्मयनीयं मानुषवेषेप्यमानुषव्यापार- तया कवि कल्पनावैचित्र्यशालितया चाश्चर्यकरमिति भावः । हरे: श्रीकृष्णस्य चरित्रं चरितं निबध्नाति पद्यमयकाव्यात्मना रचयतीत्यर्थः ।
" बध बन्धने " इति धातोः कर्तरि लट् । तेन हरिचरितवर्णनरूपतया परम पुरुषार्थफलकत्वं व्यज्यते । अत्रानुबन्धचतुष्टयादिकं यथोदितमवगन्तव्यम् ॥ ५३ ॥
एवं प्रबन्धादांवाचरणीयं मङ्गळादिकमभिनिर्वर्त्य संप्रति विवक्षितभगवच्च- रितवर्णनमारभमाणस्तदावासभूतां द्वारवतीं नाम नगरीमुपवर्णयत्येकत्रिंशत
अस्तीत्यादिना -
अस्ति क्षितेराभरणं रमान्तःपुरी पुरी वृद्धिकरी यदूनाम् ।
वितन्वती द्वारवतीत्यभिख्यां [^1]विख्यातिविस्तारवती जगत्याम् ॥५४॥
अस्तीति – क्षितेः भूमेः आभरणं अलंकारभूता रमायाः श्रिय अन्तःपुरी अवरोधभूता अष्टलक्ष्मीनिवासरूपेत्यर्थः । यदूनां यदुवंशजानां राज्ञाम्
[^1] विख्यात is another reading noted by the commentator.