This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
इत्थं राजानं निर्दिश्य तदनुबद्धतया देशकालोलौ प्रेक्षावत्प्रवृत्तयेऽनुबन्ध-

चतुष्टयं चोपदर्शयन् चिकीर्षितं प्रतिजानीते-

अध्यास्य तञ्जानगरीममुष्मिन्सर्वंसहां शासति सार्वभौमे ।

श्रीराजचूडामणियायजूकश्चित्रं निबध्नाति हरेश्चरित्रम् ॥ ५३ ॥
 

अध्यास्येति – अमुष्मिन् रघुनाथभूपे सार्वभौमे सर्वभूमीश्वरे तञ्जानगरीं

तञ्जाख्यासुरविरचितत्वेन तन्नाम्ना प्रथितां नगरीं पुरीं अध्यास्य उषित्वा
सर्वं- सहां भूमिं शासति रक्षति सति तेन तदाधिपत्योपलक्षितः षट्शताधिकवर्ष-
कवर्ष
चतुस्सहस्रकलिव्यापनात्मकः कालः, तञ्जापुरीति देशश्च प्रतिपादितः ।

राजा चन्द्र: चूडामणिः किरीटं यस्येति चन्द्रचूडस्य प्रति निर्देशतया राज्ञां
चूडामणिः किरीटं तद्वत् शिरसोपलालित इत्यर्थः । राजचूडामणिरिति यायजूकः
अनवरतयजनपरः। "इज्याशीलो यायजूक : " इत्यमरः । यजते: पौन:पुन्यार्थे
यङन्तात् "यजजपदशां यङ: " इति कर्तरि ऊकप्रत्ययः । तेन प्रबन्धकर्तुनिंर्निदे-
[र्दे]शः कृतः। चित्रं विस्मयनीयं मानुषवेषेप्यमानुषव्यापार- तया कवि कल्पना-
वैचित्र्यशालितया चाश्चर्यकरमिति भावः । हरे: श्रीकृष्णस्य चरित्रं चरितं
निबध्नाति पद्यमयकाव्यात्मना रचयतीत्यर्थः ।
" बध बन्धने' " इति धातोः कर्तरि
लट् । तेन हरिचरितवर्णनरूपतया परम पुरुषार्थफलकत्वं व्यज्यते । अत्रानुबन्ध-
चतुष्टयादिकं यथोदितमवगन्तव्यम् ॥ ५३ ॥
 

एवं प्रन्धादांवाचरणीयं मङ्गळादिकमभिनिर्वर्त्य संप्रति विवक्षितभगवच्च-
चच्च
रितवर्णनमारभमाणस्तदावासभूतां द्वारवतीं नाम नगरीमुपवर्णयत्येकत्रिंशत

अस्तीत्यादिना -
 

अस्ति क्षितेराभरणं रमान्तः पुरी पुरी वृद्धिकरी यदूनाम् ।

वितन्वती द्वारवतीत्यभिख्यां [^1]विख्यातिविस्तारवती जगत्याम् ॥५४॥

अस्तीति – क्षितेः भूमेः आभरणं अलंकारभूता रमायाः श्रिय
अन्तःपुरी अवरोधभूता अष्टलक्ष्मीनिवासरूपेत्यर्थः । यदूनां यदुवंशजानां राज्ञाम्

 
 
[^
1] विख्यात is another reading noted by the commentator.