2023-04-06 02:50:48 by ambuda-bot
This page has not been fully proofread.
रुक्मिणीकल्याणे सव्याख्याने
इत्थं राजानं निर्दिश्य तदनुबद्धतया देशकालो प्रेक्षावत्प्रवृत्तयेऽनुबन्ध-
चतुष्टयं चोपदर्शयन् चिकीर्षितं प्रतिजानीते-
अध्यास्य तञ्जानगरीममुष्मिन्सर्वसहां शासति सार्वभौमे ।
श्रीराजचूडामणियायजूकश्चित्रं निबध्नाति हरेश्चरित्रम् ॥ ५३ ॥
अध्यास्येति – अमुष्मिन् रघुनाथभूपे सार्वभौमे सर्वभूमीश्वरे तञ्जानगरीं
तञ्जाख्यासुरविरचितत्वेन तन्नाम्ना प्रथितां नगरीं पुरीं अध्यास्य उषित्वा
सर्वसहां भूमिं शासति रक्षति सति तेन तदाधिपत्योपलक्षितः षट्शताधि-
कवर्षचतुस्सहस्रकलिव्यापनात्मकः कालः, तञ्जापुरीति देशश्च प्रतिपादितः ।
राजा चन्द्र: चूडामणिः किरीटं यस्येति चन्द्रचूडस्य प्रति निर्देशतया राज्ञां
चूडामणिः किरीटं तद्वत् शिरसोपलालित इत्यर्थः । राजचूडामणिरिति यायजूकः
अनवरतयजनपरः। "इज्याशीलो यायजूक : " इत्यमरः । यजते: पौन:पुन्यार्थे
यङन्तात् "यजजपदशां यङ: " इति कर्तरि ऊकप्रत्ययः । तेन प्रबन्धकर्तुनिंदे-
[र्दे]शः कृतः। चित्रं विस्मयनीयं मानुषवेषेप्यमानुषव्यापारतया कविकल्पना-
वैचित्र्यशालितया चाश्चर्यकरमिति भावः । हरे: श्रीकृष्णस्य चरित्रं चरितं
निबध्नाति पद्यमयकाव्यात्मना रचयतीत्यर्थः । "बध बन्धने' इति धातोः कर्तरि
लट् । तेन हरिचरितवर्णनरूपतया परमपुरुषार्थफलकत्वं व्यज्यते । अत्रानुबन्ध-
चतुष्टयादिकं यथोदितमवगन्तव्यम् ॥ ५३ ॥
एवं प्रवन्धादांवाचरणीयं मङ्गळादिकमभिनिर्वर्त्य संप्रति विवक्षितभग-
चच्चरितवर्णनमारभमाणस्तदावासभूतां द्वारवतीं नाम नगरीमुपवर्णयत्येकत्रिंशत
अस्तीत्यादिना -
अस्ति क्षितेराभरणं रमान्तः पुरी पुरी वृद्धिकरी यदूनाम् ।
वितन्वती द्वारवतीत्यभिख्यां विख्यातिविस्तारवती जगत्याम् ॥५४॥
अस्तीति – क्षितेः भूमेः आभरणं अलंकारभूता रमायाः श्रिय
अन्तःपुरी अवरोधभूता अष्टलक्ष्मीनिवासरूपेत्यर्थः । यदूनां यदुवंशजानां राज्ञाम्
1 विख्यात is another reading noted by the commentator.