This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
-
 
1
 
सत्र इति – यदीये रघुनाथभूपसम्बांन्धनि । तेन प्रजापालनार्थपरिकलित

इत्यर्थः । सत्रे नित्यान्नदानशालायां अग्न्याधेयादिकस्य यज्ञस्य यावज्जीवाग्नि-

होत्रसंकल्पवदनवरतान्नप्रदानसंकल्पमूलतया औपचारिक: सत्रपदप्रयोगः,

जातावेकवचनम्, सत्रेष्वियर्थः । नित्यं प्रत्यहं प्रतिभुक्तिसमयमिति यावत् ।

इलानिलिम्पैः भूदेर्वैः ब्राह्मणैः कर्तृभिः तत्तत्सत्रभोक्तृभिरिति भावः। आज्यप्रवाहैः
भुक्त्यर्थपरिवेषितघृतपूरैः अभितः सर्वतः विभिन्नः विच्छिन्नः यः मृदुलै:
सुकुमारैः यथोचितपाकेन विक्लृत्तिविशेषवत्तयात्यन्तसुकुमारैरिति भावः ।
तेन प्रवाहनिरोधासमर्थत्वं प्रतीयते । तादृशःशैः अन्नैः ओदनैः कृतः सेतुः द्रवद्रव्य-
निरोधार्थीथं पूर्वकृतः बन्धविशेष: । "सेतुराळौ स्त्रियां पुमान् " इत्यमरः । "आळि:
सेतुस्सखी पङ्क्ति : " इति च रत्नमाला । तथाविधान्न रचिततया बलवदाज्यप्रवाह -
निरोधाक्षमतया सर्वतः खण्डित इति भावः । पाकप्रकर्षात् अतिपाकान्निमित्तात्
कठिनैः घनीभूतैः पयोभिः दुग्धैः सित- शर्करादिमधुरतरवस्तुजालमिळितैः
पिण्डीभूतैः परमान्नैरिति भावः । निबध्यते दृढीक्रियत इत्यर्थः । निपूर्वात्
"बध बन्धने" इति धातोः कर्मणि आत्मनेपदे लट् । उदात्तालंकार : मृदुलकठिन-
पदाभ्यामुक्ताभिप्रायगर्भा- भ्यामुपात्तपरिकराभ्यां संसृष्टिः ॥
 
ܐܐ
 
६५
 

श्रीपारिजाताहरणाभिधानो येनैकरात्रेण कृतः प्रबन्धः' ।
 
[^1] ।
अन्ये च वाल्मीकिचरित्रमुख्या विश्वप्रतीता विहिताः प्रबन्धाः ॥५२॥

श्रीति — येन रघुनाथभूपेन पारिजाताहरणमिति अभिधानं नाम यस्य

तादृशः । यत्किल भगवता कृष्णेन सत्यभामार्थे स्वर्गात् पारिजाताहरण- माचरितं
तत्प्रपञ्चनारूपतया तन्नाम्ना प्रख्यातः द्विपदो दृश्यप्रबन्धविशेषः । एकरात्रेण
एकया निशया एकस्यां रात्राववसन्नायामिति भावः । कृतः रचितः प्रतिदिन -
प्रबन्धनिर्मातेति भावः । तथा वाल्मीके: प्राचेतसस्य मुनेः चरित्रं वृत्तं
तत्प्रतिपादकतया तन्नामकः प्रबन्ध : मुख्यं येषां ते वाल्मीकि चरित्रमुख्या
विश्वस्मिन् अखिलप्रपञ्चे प्रतीता: ख्याताः । अन्ये उक्तादपरे प्रबन्धाः कृतयश्च
विहिता: निर्मिताः । सः अजायतेति पूर्वेणान्वयः ॥ ५२ ॥
 
3

 
 
[^1]
G, 4A. कृतो निवद्ध: [न्धः]