This page has been fully proofread once and needs a second look.

अत्र वृक्षगते स्वाभाविके स्थिरत्वे लज्जाजनितस्तंभात्मताध्यवसिते वरणोद्यतसुराङ्गनामाल्यार्पणासमर्थत्वज्ञानं न हेतुरेव हेतुतया निर्दिष्टमिति हेतूत्प्रेक्षा गूढा ॥ ४९ ॥
 
भुजप्रतापस्फुरणैर्यदीयैरिदं विलीयेततमामितीव ।
विचिन्त्य हैमं जगदण्डभाण्डं[^1] वेधाजलान्तर्विदधे सुमेधाः ॥ ५० ॥
 
भुजेति–सु शोभना मेधा प्रज्ञा यस्य सः तादृशः भूतभाव्यर्थानुचिन्तनपूर्वं
तदनुगुणस्वव्यापारवानिति यावत् । सुपूर्वात् "नित्यमसिच् प्रजामेधयोः "
इत्यसिच् प्रत्यये सुमेधाः । सान्तोयम् । वेधाः ब्रह्मा निखिलब्रह्माण्डस्रष्टेति भावः । हैमं सुवर्णविकारं अतितापे द्रवीभावस्वरूपयोग्यमिति भावः । इदं अद्रुतत्वेनाद्यापि वर्तमानमिति भावः । जगदण्डं निखिलजगदाधारभूतं ब्रह्माण्डमेव भाण्डं भाजनविशेष: । यदीयै: रघुनाथभूपसम्बन्धिभिः भुजप्रतापस्फुरणैः दोरूष्मप्रज्वलनैः तस्याद्यतनत्वेपि भावित्वेन ब्रह्मणा ब्रह्माण्डसृष्ट्यवसर परिचिन्तितैरिति भावः । विलीयेततमां अत्यन्तं द्रवीभूतं भवेत् । विपूर्वात् " लीङ् श्लेषणे" इति धातोरात्मनेपदे लिङ् । अतिशाय- नार्थे तमप्प्रत्यय आंप्रत्ययश्च । इति एवम् । विचिन्त्येव पर्यालोच्येव । सुवर्ण स्यात्यन्तानलतापे द्रवीभवनस्वाभाव्यात् सौवर्णमिदमण्डमिह भुवि रघुनाथ प्रतापेन तेजस्त्रयातिशायिना सर्वतः प्रज्वलता द्रवीभूतमेव भवेत् । तर्हि जगदेव निखिलमवसनं स्यात्तस्य च द्रवीभावप्रतिबन्धकद्रवद्रव्यान्तर- संस्थाने तुनैवं भवेदिति मत्वेवेति भावः । इदमिति द्वितीयान्ततयानुषज्यते । इदमीदृश ब्रह्माण्डं जलान्तः जलमध्ये महाजलौघमध्य इति यावत् । राज- दन्तादिवत्समास: । विदधे विन्यस्तवान् । अत एवाद्याप्यविलीनमेव वर्तत इति भावः । अत्र ब्रह्माण्डस्य महाजलमध्यविन्यसनं प्रति कविकल्पिताया ब्रह्माण्डसर्गकालिकाया प्रकृतराजप्रतापतपनसंभावितब्रह्माण्डनाशप्रती- कारचिन्ताया हेतुत्ववर्णनादसिद्धविषया हेतूत्प्रेक्षा । इमामेवात्युक्तिरूप तयात्युत्प्रेक्षामाहुः । हैमपदस्य सुमेधःपदस्य च उक्ताभिप्रायगर्भतया परिकराभ्यां संसृष्टिः ॥ ५० ॥
 
सत्रे यदीये मृदुलान्नसेतुराज्यप्रवाहैरभितो विभिन्नः ।
पाकप्रकर्षात्कठिनैः पयोभिर्निबध्यते नित्यमिलानिलिम्पैः ॥ ५१ ॥
 
[^1] A. भाण्डवेधा.