This page has not been fully proofread.

६४
 
रुक्मिणीकल्याणे सव्याख्याने
 
अत्र वृक्षगते स्वाभाविक स्थिरत्वे लज्जाजनितस्तंभात्मताध्यवसिते वरणोद्यत-
सुराङ्गनामाल्यार्पणासमर्थत्वज्ञानं न हेतुरेव हेतुतया निर्दिष्टमिति हेतूत्प्रेक्षा
गूढा ॥ ४९ ॥
 
भुजप्रतापस्फुरणैर्यदीयैरिदं विलीयेततमामितीव ।
 
विचिन्त्य हैमं जगदण्डभाण्ड' वेधाजलान्तर्विदधे सुमेधाः ॥ ५० ॥
 
"
 
भुजेति–सु शोभना मेधा प्रज्ञा यस्य सः तादृशः भूतभाव्यर्थानुचिन्तनपूर्व
तदनुगुणस्वव्यापारवानिति यावत् । सुपूर्वात् "नित्यमसिच् प्रजामेधयोः "
इत्यसिच् प्रत्यये सुमेधाः । सान्तोयम् । वेधाः ब्रह्मा निखिलब्रह्माण्डस्रष्टेति भावः ।
हैमं सुवर्णविकारं अतितापे द्रवीभावस्वरूपयोग्यमिति भावः । इदं अद्भुतत्वेनाद्यापि
वर्तमानमिति भावः । जगदण्डं निखिलजगदाधारभूतं ब्रह्माण्डमेव भाण्डं भाजन-
विशेष: । यदीयै: रघुनाथभूपसम्बन्धिभिः भुजप्रतापस्फुरणैः दोरूष्मप्रज्वलनैः
तस्याद्यतनत्वेपि भावित्वेन ब्रह्मणा ब्रह्माण्डसृष्ट्यवसर परिचिन्तितैरिति भावः ।
विलीयेततमां अत्यन्तं द्रवीभूतं भवेत् । विपूर्वात् " लीङ् श्लेषणे" इति धातोरात्मने-
पदे लिङ् । अतिशायनार्थे तमप्प्रत्यय आंप्रत्ययश्च । इति एवम् । विचिन्त्येव पर्या-
लोच्येव । सुवर्णस्यात्यन्तानलतापे द्रवीभवनस्वाभाव्यात् सौवर्णमिदमण्डमिह भुवि
रघुनाथप्रतापेन तेजस्त्रयातिशायिना सर्वतः प्रज्वलता द्रवीभूतमेव भवेत् । तर्हि
जगदेव निखिलमवसनं स्यात्तस्य च द्रवीभावप्रतिबन्धकद्रवद्रव्यान्तरसंस्था ने तु
नैवें भवेदिति मत्वेवेति भावः । इदमिति द्वितीयान्ततयानुषज्यते । इदमीदृश
ब्रह्माण्डं जलान्तः जलमध्ये महाजलौघमध्य इति यावत् । राजदन्तादिवत्समास: ।
विदधे विन्यस्तवान् । अत एवाद्याप्यविलीनमेव वर्तत इति भावः । अत्र ब्रह्माण्डस्य
महाजलमध्यविन्यसनं प्रति कविकल्पिताया ब्रह्माण्डसर्गकालिकाया प्रकृत-
राजप्रतापतपनसंभावितब्रह्माण्डनाशप्रतीकारचिन्ताया हेतुत्ववर्णनादसिद्धविषया
हेतूत्प्रेक्षा । इमामेवात्युक्तिरूपतयात्युत्प्रेक्षामाहुः । हैमपदस्य सुमेधःपदस्य
च उक्ताभिप्रायगर्भतया परिकराभ्यां संसृष्टिः ॥ ५० ॥
 
सत्रे यदीये मृदुलान्नसेतुराज्यप्रवाह्रैरभितो विभिन्नः ।
पाकप्रकर्षात्कठिनैः पयोभिर्निबध्यते नित्यमिलानिलिम्पैः ॥ ५१ ॥
 
1 A3. भाण्डवेधा.