2023-04-06 02:50:47 by ambuda-bot
This page has not been fully proofread.
प्रथमस्सर्गः
66
वल संचलने " इति धातोरात्मने पदे लट् । अत्र रघुनाथभूपपरिपालितविद्वद्गृहं
[ह] द्वारनिबद्धमतङ्गजेषु तथात्वं दम्भपदेनापहूनुत्य हविरादानार्थागतान्तःप्रविष्ट-
मघवद्विसृष्टतद्द्वारसंचलदिन्द्रवाहनीभूतमेघत्वारोपात् कैतवापनुतिरलंकारः ।
"कैतवापनुतित्र्यंक्तौ व्याजाद्यैर्निहुनुतेः पदैः " इति तल्लक्षणात् । तेन सन्तत-
निबद्धगजेषु इन्द्रवाहत्वबुध्यनुरोधेन तदाश्रितयज्ञेषु सातत्यं तेषां च प्रत्यक्ष-
हविग्रहणाहतया महामहिमत्वं राज्ञश्च निजाश्रितेषु गजान्तैश्वर्यप्रदातृत्वमित्यादयो
व्यज्यन्ते ॥ ४८ ॥
पतीन्चरीतुं प्रथने यदीये निर्जग्मुषे निर्जरयौवताय ।
'मालार्पणे मन्दतया प्रय/ति न्रीडाजडत्वं विटपी मघोनः ॥ ४९ ॥
पतीनिति – मघोनः इन्द्रस्य विटपी पादप: कल्पतरुरित्यर्थः । जातावेक-
वचनम्, सर्वेपि कल्पतरव इति भावः । यदीये रघुनाथभूपसम्बन्धिनि तदारब्ध-
इत्यर्थः । प्रथने युद्धे । "युद्धं प्रथनं प्रविदारणम्" इत्यमरः । पतीन् नायकान् ।
रघुनाथेन हतान् दिव्यदेहमवलम्ब्य स्वर्गे आगतान् भूपानिति भावः । वरीतुं
गान्धर्वेण विधिना परिणेतुम् । वृणोतेस्तुमुन्प्रत्यये इडागमे "वृतो वा" इति दीर्घः।
निर्जग्मुषे स्वर्गादभिप्रस्थिताय प्रस्थाय स्वेषां निकटमासाद्य प्रत्येकमेकैकां वरण-
मालां याचितवत इति भावः । निर्जराणां देवानां यौवताय युवतीकदम्बाय । "तस्य
समूह: " इत्यधिकारे "अनुदात्तादेरञ्" इति अञ्प्रत्यये यौवतम् । "यौवतं गण:"
इत्यमरः । मालार्पणे वरणस्त्रग्वितरणे विषये, मन्दतया रिक्ततया प्रदेयमाल्याभावा-
दिति भावः । ब्रीडया लज्जया निमित्तेन जडत्वं अचेतनतां प्रयाति प्राप्नोति । या
प्रापणे " इति धातोर्लट् । तेन तथाविधोऽद्यापि दृश्यत इति ध्वन्यते । अस्य
राज्ञः शत्रुभटानामपरिमेयतया राज्ञो लघुहस्ततया च समसमयसमागतानां सर्वेषां
वरणमालार्पणे मिलितानामपि सर्वेषां देवतारूपाणां तत्पर्याप्तकुसुमोद्गमाभावात्
क्रमशस्तदुत्पादनावकाशाभावाच्च महावदान्यतया त्रिजगद्विख्यातस्यापि मम
कुसुममालामात्रार्पणे रिक्तता संजातेति त्रपावशात् किमु निश्चेष्टा जाता
लक्ष्यन्ते । कथमन्यथा लोकोत्तरमहोदारस्य तादृशतरुजन्म संभवेदिति भावः ।
1 AJ., G. माल्यार्पण