This page has been fully proofread once and needs a second look.

विपूर्वाद्दधातेः लिटि अतिशयार्थतमप्प्रत्यये "किमेत्तिङव्यये " इति तमबन्तादांप्रत्यये विदधेतमाम् । निरवयवं मालारूपकमलङ्कारः ॥ ४६ ॥

मूर्त्यम्बिकायामजनिष्ट तस्माद्रतीशरूपो रघुनाथभूपः ।
अत्युक्तिरत्यद्भुतपुण्यवृत्तौ यत्र स्वभावोक्तियशोऽपि नैति ॥ ४७ ॥

मूर्तीति–तस्मात्पूर्वोक्तादच्युतभूपात् मूर्त्यम्बिकायां मूर्तिनाम्न्यां महिष्यां
रतीशस्य मदनस्येव रमणीयं रूपं यस्य तादृश: रघुनाथनामा भूप: अजनिष्ट
उदभूत्। "जनी प्रादुर्भावे" इति धातोरात्मने पदे लुङ् । अत्यद्भुता अतिविस्मयकारिणी निखिलातिशायिनीत्यर्थः । पुण्या पावनी वृत्तिः वर्तनं चरितमित्यर्थः । यस्य तादृशे यत्र रघुनाथभूपे विषये प्रयुज्यमानेति भावः । अत्युक्तिः तत्तत्स्वरूपयोग्यतामतिशयाना उक्तिः कथनं श्लाघारूपेणा- संभावितमिथ्यावादइत्यर्थः । सैवात्युक्तिर्नामालंकार : । "अत्युक्तिरद्भुता तथ्या शौर्यौदार्यादिवर्णनम् " इति लक्षणात् । सापीत्यर्थः । स्वभावोक्तेः तत्तत्स्वरूपयोग्यार्थकथनस्य स्वभावोक्तिनामालंकारस्य " स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम्" इति लक्षणात् । तस्याः यशोविख्याति- मपि नैति न प्राप्नोति । उक्तविधया असंभावितमिथ्या वादोऽपि रघुनाथ- भूपविषये प्रयुज्यमानस्तदीयसहजचरितवर्णनस्याप्यपर्याप्ततया तदीयस्व- भाववर्णनचमत्कृतिमपि न भजतीत्यर्थः । तेन तच्चरितस्य लोकातिशायित्वं प्रतीयते । अत्युक्तिरेवालंकारः । रतीशरूप इत्युपमासंसृष्टिः ॥ ४७॥

यदाश्रितानां यजने हवींषि ग्रहीतुमन्तर्गृहमागतस्य ।
द्वारोपकण्ठे द्विपडिम्भदंभाद्वाहा वलन्ते घनवाहनस्य ॥ ४८ ॥

यदिति – यं रघुनाथभूपं आश्रितानां तदुपजीविनां ब्राह्मणानामिति भाव: । यजने यज्ञे हवींषि चरुपुरोडाशादीनि ग्रहीतुं आदातुं अन्तर्गृहं सदनाभ्यन्तरं आगतस्य प्राप्तस्य घनो जलदो वाहनं यस्य तादृशस्य महेन्द्रस्येत्यर्थः । " "तुराषाणमेघवाहनः " इत्यमरः । वाहा: मेघा : जलधरा एवेत्यर्थः ।
द्विपडिम्भाः करिकलभा इति दम्भात् कपटात् द्वारस्य प्रतीहारस्योपकण्ठे प्रान्तभागे प्रकरणात्तदाहृतानामित्यर्थ: । [^1]वलन्ते सञ्चरन्ति । सोऽजनिष्टेति पूर्वेणान्वयः ।
 
[^1] The original has बलवन्तो but it makes no sense.