2023-04-08 14:12:34 by jayusudindra
This page has been fully proofread once and needs a second look.
रुक्मिणीकल्याणे सव्याख्याने
मूर्त्यम्बिकायामजनिष्ट तस्मा
अत्युक्तिरत्यद्भुतपुण्यवृत्तौ यत्र स्वभावोक्तियशोऽपि नैति ॥ ४७ ॥
मूर्तीति–तस्मात्पूर्वोक्तादच्युतभूपात् मूर्त्यम्बिकायां मूर्तिनाम्न्यां महिष्यां
रतीशस्य मदनस्येव रमणीयं रूपं यस्य तादृश: रघुनाथनामा भूप: अजनिष्ट
उदभूत्। "जनी प्रादुर्भावे" इति धातोरात्मने पदे लुङ् । अत्यद्भुता अतिविस्मय
यदाश्रितानां यजने हवींषि ग्रहीतुमन्तर्गृहमागतस्य ।
द्वारोपकण्ठे द्विपडिम्भदंभाद्वाहा वलन्ते घनवाहनस्य ॥ ४८ ॥
-
यदिति – यं रघुनाथभूपं आश्रितानां तदुपजीविनां ब्राह्मणानामिति
।
द्विपडिम्भाः करिकलभा इति दम्भात् कपटात् द्वारस्य प्रतीहारस्योपकण्ठे प्रान्तभागे
[^1] The original has बलवन्तो but it makes no sense.