This page has not been fully proofread.

५२
 
रुक्मिणीकल्याणे सव्याख्याने
 
विपूर्वाद्दधातेः लिटि अतिशयार्थतमप्प्रत्यये "किमेत्तिङव्यये " इति तमबन्तादां-
प्रत्यये विदवेतमाम् । निरवयवं मालारूपकमलङ्कारः ॥ ४६ ॥
 
मूर्त्यम्बिकायामजनिष्ट तस्माइतीशरूपो रघुनाथभूपः ।
अत्युक्तिरत्यद्भुतपुण्यवृत्तौ यत्र स्वभावोक्तियशोऽपि नैति ॥ ४७ ॥
 
मूर्तीति–तस्मात्पूर्वोक्तादच्युतभूपात् मूर्त्यम्बिकायां मूर्तिनाम्न्यां महिष्यां
रतीशस्य मदनस्येव रमणीयं रूपं यस्य तादृश: रघुनाथनामा भूप: अजनिष्ट
उदभूत्। "जनी प्रादुर्भावे" इति धातोरात्मने पदे लुङ् । अत्यद्भुता अतिविस्मय-
कारिणी निखिलातिशायिनीत्यर्थः । पुण्या पावनी वृत्तिः वर्तनं चरितमित्यर्थः ।
यस्य तादृशे यत्र रघुनाथभूपे विषये प्रयुज्यमानेति भावः । अत्युक्तिः
तत्तत्स्वरूपयोग्यतामतिशयाना उक्तिः कथनं श्लाघारूपेणासंभावितमिथ्यावाद -
इत्यर्थः । सैवात्युक्तिर्नामालंकार : । "अत्युक्तिरद्भुता तथ्या शौर्यौदार्यादिवर्णनम् "
इति लक्षणात् । सापीत्यर्थः । स्वभावोक्तेः तत्तत्स्वरूपयोग्यार्थकथनस्य स्वभावोक्ति-
नामालंकारस्य " स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम्" इति लक्षणात् ।
तस्याः यशोविख्यातिमपि नैति न प्राप्नोति । उक्तविधया असंभावितमिथ्या
वादोऽपि रघुनाथभूपविषये प्रयुज्यमानस्तदीयसहजचरितवर्णनस्याप्यपर्याप्ततया
तदीयस्वभाववर्णनचमत्कृतिमपि न भजतीत्यर्थः । तेन तच्चरितस्य लोकाति-
शायित्वं प्रतीयते । अत्युक्तिरेवालंकारः । रतीशरूप इत्युपमासंसृष्टिः ॥ ४७॥
 
यदाश्रितानां यजने हवींषि ग्रहीतुमन्तर्गृहमागतस्य ।
 
द्वारोपकण्ठे द्विपडिम्भदंभाद्वाहा वलन्ते घनवाहनस्य ॥ ४८ ॥
 
-
 
यदिति – यं रघुनाथभूपं आश्रितानां तदुपजीविनां ब्राह्मणानामिति
भाव: । यजने यज्ञे हवींषि चरुपुरोडाशादीनि ग्रहीतुं आदातुं अन्तर्गृहं
सदनाभ्यन्तरं आगतस्य प्राप्तस्य घनो जलदो वाहनं यस्य ताशस्य महेन्द्र-
स्येत्यर्थः । " तुराषाणमेववाहनः " इत्यमरः । वाहा: मेघा : जलधरा एवेत्यर्थः ।

द्विपडिम्भाः करिकलभा इति दम्भात् कपटात् द्वारस्य प्रतीहारस्योपकण्ठे प्रान्तभागे
प्रकरणात्तदाहृतानामित्यर्थ: । वलन्ते सञ्चरन्ति । सोऽजनिष्टेति पूर्वेणान्वयः ।
 
1 The original has but it makes no sense.