2023-04-09 14:35:04 by jayusudindra
This page has been fully proofread once and needs a second look.
चिदिति – चितः ज्ञानस्य परिणामभेदे आकारविशेषे चिन्मयत्वेन
पुराणादिप्रपञ्चित इति भावः । चिदम्बरे पुण्डरीकक्षेत्रे । तथा वैकुण्ठम्य अप्राकृतस्य विष्णुस्थानस्य वीप्सां पुनरुक्तिं जुषति प्राप्नोतीति तादृशे वेङ्कटाद्रौ शेषाचले वैकुण्ठादभिन्न इति भावः । तथा श्रीमत्सु महामहिमवत्सु कालहस्ती दक्षिणकैलास: आदिर्येषां तेषु स्थानेषु च वृषाकपाय्योः श्रीगौर्योः वरयोः नायकयोः हरिहरयोरित्यर्थः । "वृषाकपाय्यौ श्रीगौर्यो, हरविष्णू वृषा कपी " इति चामर: [^1]। "वृषाकप्यग्निकुसितकुसिदानामुदात्त: " इति सूत्रेण ङीप् । तत्सन्नियोगशिष्टत्वादेकारादेशश्च । यद्यप्यत्रान्योन्याश्रयः प्रतिभाति तथापि सपर्यो द्देश्यत्वं नकेवलहरिहरयो: किन्तु श्रीगौर्योरपीति ध्वननार्थकतया न दोष इति मन्तव्यम् । सपर्यों पूजां " सपर्यार्चार्हणा- स्समाः" इत्यमरः । अतनोत् विस्तरेणाकार्षीदित्यर्थः ॥ ४५ ॥
सौन्दर्यसङ्केतनिकेतभूतास्सारस्य सर्वस्वनिधानसीमाः[^2] ।
सौभाग्यसारास्सुदृशां[^3] सहस्रं भुवोऽधिविन्ना विदधेतमां यः ॥ ४६॥
सौन्दर्येति–य: अच्युतभूपः सौन्दर्यस्य रूपस्य अङ्गप्रत्यङ्गसौष्ठवस्येत्यर्थः । सङ्केतस्य सर्वैरस्माभिरिहैवावस्थेयमिति समयबन्धस्य निकेतभूताः सर्वाङ्ग-
सुन्दर्य इति भावः । सारस्य सरसभावस्य, रसज्ञताया इति यावत् । यत् सर्वस्वं निखिलसारतरांशस्तस्य निधानसीमा निक्षेपस्थानभूताः । तथा सौभाग्यस्य लावण्यस्य मुक्ताफलादिवत् देहप्रभातारळ्यस्य सारा: श्लाघ्यांशभूताः, लावण्यसार एव नारीरूपेण परिणता इत्यर्थः । लावण्यमेव सारो बलं यासामिति वा । तादृश्य: सुदृशां योषितां सहस्रं सहस्रसंख्याका योषित इत्यर्थः । सुदृशः सहस्रमिति पाठेप्ययमेवार्थ: । भुवः भूमेः अधिविन्नाः सपत्न्यः विदधेतमां समतनोत् । सहस्रं योषितः भुवः सपत्नीत्वेन स्वयं परिगृहीतवानित्यर्थः ।
[^1] The original reads स्मृते: in the place of अमर:.
[^2] G. निकेतसीमा:.
[^3] A., AI., G. सुदृश: and the commentator also notes this reading.