This page has been fully proofread once and needs a second look.

मधिशयानायेत्यर्थः । महिम्ने ज्योतिषे रङ्गनाथाय भुवनं जगत् एकं केवलं मूल्यं पणः यस्यास्तादृर्शी एकैकस्य भूषणस्याखिलमपि भुवनं मिलितं यदि तदा कथंचिन्मूल्यं भवितुमर्हति न पुनर्जगद्गतमन्यदस्य मूल्यं भविष्यतीति भावः । अशेषां निरवशेषां पादुकादिकिरीटान्तेषु न किंचिद्दत्तमवशिष्यत इति भावः । भूषां भूषणम् । तथा भव्यैः मङ्गलप्रदैः दोषलेशविवर्जितैरिति भावः मणिभिः पद्मरागादिभि: प्रणीतं परिकल्पितं भद्रासनं सपर्यासनं सिंहाङ्कासनमिति भावः । तथा अनेकान् बहुविधान् ग्रामान् भगवन्निवेदनो- पयुक्तधान्याद्युत्पादकक्षेत्रमण्डितांन्भुवमिति भाव: । अदित प्रादात् । " डु दाञ् दाने " इति धातोरात्मने पदे लुङ् । अनुप्रासेन संसृष्ट उदात्तालंकारः ॥ ४३ ॥
 
मायूरमध्यार्जुनकुम्भघोणश्रीदक्षिणावर्तमुखस्थलेषु ।
वृद्धाचले पञ्चनदे च सेतौ सोपानसौधानतनिष्ट यो वा ॥ ४४ ॥
 
मायूरेति – यो वा । वाकार एवकारार्थकः । य: अच्युतभूप एवेत्यर्थः । मायूरं मयूररूपया गौर्या पूजनं यत्र तादृशं क्षेत्रम्, मध्यार्जुनं हरिहरमध्य- वर्त्त्यर्जुनवृक्षोपलक्षितम्, कुम्भघोणं शरनिर्भिण्णसुधाकुम्भघोणास्थानविनि- स्सृतसुधाप्लावितम् , श्रीमत् दक्षिणावर्तं प्रदक्षिणपरिवर्तितावर्ताकारगह्वरो पलक्षितं क्षेत्रं चेत्येतानि मुखानि अग्रिमाणि येषां तेषु स्थलेषु भगवदाविर्भाव स्थानेषु । तथा वृद्धाचले वृद्धकाश्यां, पञ्चनदे कावेरीवृषरोमन्थफेनादि- पञ्चनद्युपलक्षिते जप्येश्वरक्षेत्रे, सेतौ श्रीरामकृतसमुद्रसेतौ च । सोपान- सौधान् सोपानैरारोहावरोहक्षमगोपुरप्रासादान् । अतनिष्ट व्यतानीत् । तनोतेरात्मनेपदे लुङ् । स एवेति पूर्वेणान्वयः । तादृशस्य राज्ञ इदानीम- भावेऽपि तत्कृतानाममीषां सौधानामद्यापि प्रत्यक्षतया तत्कर्तृत्वेन सर्व- बुद्धिगोचरो यः स एवेति प्रत्यभिज्ञायते । श्लाघ्यचरितनिबन्धनादुदात्ता-
लङ्कारः ॥ ४४ ॥
 
चिदम्बरे चित्परिणामभेदे वैकुण्ठवीप्साजुषि वेङ्कटाद्रौ ।
श्रीकालहस्त्यादिषु चातनोद्यो वृषाकपायीवरयोस्सपर्याम् ॥ ४५ ॥