This page has not been fully proofread.

रुक्मिणीकल्याणे सव्याख्याने
 
मधिशयानायेत्यर्थः । महिम्ने ज्योतिषे रङ्गनाथाय भुवनं जगत् एकं केवलं मूल्यं
पणः यस्यास्तादृर्शी एकैकस्य भूषणस्याखिलमपि भुवनं मिलितं यदि तदा
कथंचिन्मूल्यं भवितुमर्हति न पुनर्जगद्गतमन्यदस्य मूल्यं भविष्यतीति भावः ।
अशेषां निरवशेषां पादुकादिकिरीटान्तेषु न किंचिद्दत्तमवशिष्यत इति भावः ।
भूषां भूषणम् । तथा भव्यैः मङ्गलप्रदैः दोषलेशविवर्जितैरिति भावः मणिभिः
पद्मरागादिभि: प्रणीतं परिकल्पितं भद्रासनं सपर्यासनं सिंहाङ्कासनमिति भावः ।
तथा अनेकान् बहुविधान् ग्रामान् भगवन्निवेदनोपयुक्तधान्याद्युत्पादक क्षेत्रमण्डितां
भुवमिति भाव: । अदित प्रादात् । " डु दाञ् दाने " इति धातोरात्मने पदे लुङ् ।
अनुप्रासेन संसृष्ट उदात्तालंकारः ॥ ४३ ॥
 
८८
 
५०
 
मायूरमध्यार्जुनकुम्भघोणश्रीदक्षिणावर्तमुखस्थलेषु ।
 
वृद्धाचले पञ्चनदे च सेतौ सोपानसौधानतनिष्ट यो वा ॥ ४४ ॥
 
-
 
मायूरेति – यो वा । वाकार एवकारार्थकः । य: अच्युतभूप एवेत्यर्थः । मायूरं
मयूररूपया गौर्या पूजनं यत्र तादृशं क्षेत्रम्, मध्यार्जुनं हरिहरमध्यवर्त्त्यर्जुनवृक्षो-
पलक्षितम्, कुम्भघोणं शरनिर्भिण्णसुधा कुम्भघोणास्थानविनिस्सृतसुधाप्लावितम् ,
श्रीमत् दक्षिणावर्त प्रदक्षिणपरिवर्तितावर्ताकारगह्वरोपलक्षितं क्षेत्रं चेत्येतानि
मुखानि अग्रिमाणि येषां तेषु स्थलेषु भगवदाविर्भावस्थानेषु । तथा वृद्धाचले
वृद्धकाश्यां, पञ्चनदे कावेरीवृषरोमन्थफेनादिपञ्चनद्युपलक्षिते जप्येश्वरक्षेत्रे, सेतौ
श्रीरामकृतसमुद्रसेतौ च । सोपानसौधान् सोपानैरारोहावरोहक्षमगोपुरप्रासादान् ।
अतनिष्ट व्यतानीत् । तनोतेरात्मनेपदे लुङ् । स एवेति पूर्वेणान्वयः । तादृशस्य
राज्ञ इदानीमभावेऽपि तत्कृतानाममीषां सौधानामद्यापि प्रत्यक्षतया तत्कर्तृत्वेन
सर्वबुद्धिगोचरो यः स एवेति प्रत्यभिज्ञायते । श्लाघ्यचरितनिबन्धनादुदात्ता-
लङ्कारः ॥ ४४ ॥
 
चिदम्बरे चित्परिणामभेदे वैकुण्ठवीप्साजुषि वेङ्कटाद्रौ ।
श्रीकालहस्त्यादिषु चातनोद्यो वृषाकपायीवरयोस्सपर्याम् ॥ ४५ ॥