2023-04-09 16:42:32 by jayusudindra
This page has been fully proofread once and needs a second look.
तया शिवाय मङ्गळाय दोषापाकृतये श्रीरामसेतौ सिन्धौ अवभृथं स्नानं व्यधत्तेति केचित् ॥ ४१ ॥
दिनेदिने दीनकृतानुकम्पो दीनारजातानि दिशन्भृशं यः ।
ग्रामान्गुणग्रामनिकामरामान्पारेसहस्रं प्रददौ बुधेभ्यः ॥ ४२ ॥
दिनेदिन इति — दीनेषु दरिद्रेषु विषये कृता विहिता अनुकम्पा दया येन
तादृशः यः अच्युतभूपः दिनेदिने प्रतिदिवसं अविच्छेदेनेत्यर्थः । बुधेभ्यः
पण्डितेभ्यः, ज्ञानवत्तया दानपात्रभूतेभ्य इति भावः । दीनाराणां निष्काणां
जातानि निचयान् । भृशं अतिशयितं यथातथा, अर्थिनामाशंसितादप्यधिक तयेति भावः । दिशन् वितरन् सन्, तत्तत्कुटुम्बोपलालनपर्याप्तादधिकं दिशन्नपीति भावः । गुणानां अनूषरत्वमधुरोदकत्वादीनां क्षेत्रगुणानां ग्रामै: सन्दोहैः निकामं अत्यन्तं रामान् रमणीयान् । गुणवत्तया निर्दुष्टतया सर्व- जनाशंसनीयानिति भावः । पारेसहस्रं सहस्राधिकसंख्याकान्। "पारे मध्ये षष्ठ्या वा" इति सूत्रेणाव्ययी भावः । पूर्वपदस्यैदन्तत्वं तु निपातनादवसे- यम् । ग्रामान् बीजावपनसस्यारोपणार्हक्षेत्रमालोपलक्षितान् विषयान् प्रददौ दत्तवान् । प्रपूर्वाद्ददातेर्लिट् । दैनन्दिनदानसंवर्धिताशेषविबुधवर्गोपि शाश्वतब्रह्मप्रतिष्ठासिद्धये पूवोक्तमहादानव्यतिरेकेणापि अनेकसहस्र- संख्यान् ग्रामानेव ब्राह्मणेभ्यः प्रत्येकमदादिति भावः । उदात्तालंकार:
" उदात्तमृद्धिचरितं श्लाघ्यं वान्योपलक्षणम्" इति लक्षणात् ।
अनुप्रासेन संसृष्टिः ॥ ४२ ॥
भूषामशेषां भुवनैकमूल्यां भद्रासनं भव्यमणिप्रणीतम् ।
ग्रामाननेकानपि गाढभक्तिश्श्रीरङ्गधाम्नेऽदित यो महिम्ने ॥ ४३ ॥
भूषामिति – य: अच्युतभूप: । गाढा दृढा अनन्यविषया अविच्छिन्ना
चेति यावत् । भक्तिः देवविषयिणी अभिरतिः प्रकरणात् रङ्गनाथविषयिणीति लभ्यते । यस्य तादृशस्सन् श्रीरङ्गधाम्ने श्रीमत् रङ्गं रङ्गाख्यं नगरं श्रिया लक्ष्म्या विहारस्थानतया । श्रीरङ्गाख्यं वा धाम स्थानं यस्य तस्मै, श्रीरङ्गक्षेत्रे शेषशयन-