2023-04-07 15:50:47 by jayusudindra
This page has been fully proofread once and needs a second look.
४९
दिनेदिने दीनकृतानुकम्पो दीनारजातानि दिशन्भृशं यः ।
ग्रामान्गुणग्रामनिकामरामान्पारेसहस्रं प्रददौ बुधेभ्यः ॥ ४२ ॥
दिनेदिन इति — दीनेषु दरिद्
तादृशः यः अच्युतभूपः दिनेदिने प्रतिदिवसं अविच्छेदेनेत्यर्थः । बुधेभ्यः
पण्डितेभ्यः, ज्ञानवत्तया दानपात्रभूतेभ्य इति भावः । दीनाराणां निष्काणां
जातानि निचयान् । भृशं अतिशयितं यथातथा, अर्थिनामाशंसितादप्यधिक तयेति
" उदात्तमृद्धिचरितं श्लाघ्यं वान्योपलक्षणम्" इति लक्षणात् ।
अनुप्रासेन संसृष्टिः ॥ ४२ ॥
भूषामशेषां भुवनैकमूल्यां भद्रासनं भव्यमणिप्रणीतम् ।
ग्रामाननेकानपि गाढभक्ति
भूषामिति – य: अच्युतभूप: । गाढा दृढा अनन्यविषया अविच्छिन्ना
चेति यावत् । भक्तिः देवविषयिणी अभिरतिः प्रकरणात् रङ्गनाथविषयिणीति
7