This page has been fully proofread once and needs a second look.

सतीति भावः । जगति भुवने प्रजानां पालने रक्षणे विषये जागरूका निर्निद्रा अनवरतान्नदानेन सर्वप्रजापालनार्थ कृतावतारेत्यर्थ: । देवी अन्नपूर्णाभिधाना गौरी । चिह्नतयैव लाञ्छनरूपतयैव मूर्त्यन्तर भेदग्रहण साधनत्वेनैव न पुनरन्तः [न्न] परिवेषणसाधनतयेत्यर्थः तस्यान्यतो लब्धत्वादिति भावः । दर्वीं परिवेषणसाधनजा [ज्या ?] भिधानपात्रविशेषं दधौ बभार । दधातेः परस्मैपदे लिट् । अत्र यद्यपि निखिलभुवनरक्षा दीक्षिताया देव्या भारतवर्षमात्ररक्षकान्तरसंभवमात्रेण न स्वव्यापारवैकल्य संभवति । तथापि क्षुदभिभूतभारतवर्षमात्र एवान्नस्य दातव्यतया तस्यान्यतः सिद्धौ देव्याः कर्तव्याभावो युज्यत एव । अत एव दर्वीमात्रस्यैव चिह्नत्वमा- पादितम् । न पुनरन्यस्य पाशाङ्कुशादेरत्र निरन्तरान्नदाननिरते भूपतौ देव्या दर्वीधार [ण] स्य चिह्नरूपतया व्यक्तिभेदग्रहमात्रफलकत्वप्रतीत्या
फलोत्प्रेक्षा सापह्नवा । व्यञ्जकाभावात् गूढा । राज्ञ एवान्नपूर्णा कार्यधूर्वहत्वेन देव्यां कैमर्थ्यव्यञ्जनात् प्रतीपालंकारो व्यज्यते ॥ ४० ॥
 
महान्ति दानानि महीसुराणां कुर्वन्नस्वर्वाशयमानुपूर्व्यात् ।
श्रीरामसेतावनुहायनं यस्सिन्धौ शिवायावभृथं व्यधत्त ॥ ४१ ॥
 
महान्तीति -- य: अच्युतभूपः अखर्वः दीर्घः अकुण्ठित इति यावत् ।
आशय: अभिप्राय:, निरन्तरदाने उत्कटेच्छेति भावः, यस्मिन् कर्मणिं । तथा
महीसुराणां ब्राह्मणानां, सम्बन्धसामान्ये षष्ठीविधानात् । संप्रदानत्वविवक्षया
ब्राह्मणेभ्य इति यावत् । महान्ति महाद्रव्यसाध्यतया महद्भ्यः प्रदेयतया महद्भिः कर्तव्यतया महाफलकतया च उत्कृष्टानि दानानि तिलपर्वता दिषोडशविधतया तदन्यविध [त] या च स्मृत्यादिचोदितकल्पानुसारेण प्रसिद्धानि । आनुपूर्व्यात् विहित क्रमानुसारेण । कुर्वन् निर्वर्तयन् सन्नेव श्रीरामसेतौ दाशरथिनिबद्धसेतुमध्ये शिवाय श्रीराघवप्रतिष्ठापितलिङ्गे कृताविष्करणाय महेशाय रामनाथायेत्यर्थः । अनुहायनं प्रतिसंवत्सरम् । सिन्धौ सागरे । अवभृथं उत्सवान्ताभिषवम् । व्यधत्त अन्तर्भावितणि- जन्ततया अकारयदित्यर्थः । सकृन्महादानानि संकल्प्य प्रतिवर्षं सेतुं गत्वा
महादेवस्य महोत्सवमुपक्रम्य तदन्तरा महादानेष्वेकैकमभिनिर्वर्त्यावभृथ- मारचय्य स्वयमुभयविधमभिषवमकरोदिति भावः । प्रतिवर्षमेकैकं महादानमारचय्य तदङ्ग -