This page has been fully proofread once and needs a second look.

चेत्तदभिवृद्धौ कीदृशं वा भवेदिति भावः । समस्तवस्तुविषयकं सावयव रूपकमलंकारः ॥ ३८ ॥

सत्रावतीर्णेषु [^1]यदाश्रितानां सुत्राममुख्येषु सुधाशनेषु ।
युद्धाहतैर्यः प्रतियोधियोधैश्चक्रे पुरीं शातमखीमशून्याम् ॥ ३९ ॥

सत्रेति – सुत्राममुख्येषु महेन्द्रप्रमुखेषु सुधाशनेषु देवेषु यदाश्रितानां
अच्युतभूपालमाश्रितवतां राजप्रसादसमासादितानवधिकविभवशालितया अनवरताग्निष्टोमादिषु शक्रादीनमरानाहूय प्रत्यक्षहविर्भागं प्रदिशतामिति भावः । सत्राय यज्ञाय [^2] यज्ञीयहविराहरणायेति यावत् । "सत्रं यज्ञे यज्ञभेदे" इति रत्नमाला । अवतीर्णेषु अवरूढेषु सत्सु स्वर्गाद्भुवमिति
भावः । ब्राह्मणानामानन्त्येन क्रतूनां चानवरतप्रवर्तमानतया हविर्ग्रहणाय भुवमवतीर्णानां स्वर्गगमनप्रत्यावर्तनावकाशलाभाभावेन देवेषु सदा भुवि स्थितेषु स्वर्गशून्यत्वे प्रसक्ते सतीति भावः । यः अच्युतभूपः शातमखीं इन्द्रसम्बन्धिनीं पुरीं अमरावतीमित्यर्थः । युद्धे संयुगे आहतैः निहतैः प्रति- योधिनां प्रत्यर्थिनां योधैः । ये युध्यमानास्त एव तेन हन्यन्ते, न पुनः पलायिताः प्रह्वावेति महाधार्मिकत्वं व्यज्यते । अशून्यां परिपूर्णां निबिडा-
मिति भावः । चक्रे विदधे । करोतेरात्मने पदे लिट् । अत्र स्वर्गे देवसामान्य शून्यत्वस्यायोगे योगवर्णनादतिशयोक्तिः । तदपाकरणार्थकत्वस्य प्रतियो- धियोधहनने प्रतीत्या सिद्धविषया फलोत्प्रेक्षा व्यंजकाभावात् गूढा ॥ ३९ ॥

आलङ्कमाशङ्करधाम यस्मिन् दिने दिनेऽन्नं दिशति प्रजाभ्यः ।
जगल्प्रजारक्षणजागरूका देवी दधौ चिह्नतयैव दर्वीम् ॥ ४० ॥

आलङ्कमिति – यस्मिन् अच्युतभूपे आलङ्कं लङ्कामारभ्य आशङ्करधाम
कैलासपर्यन्तं आसेतुहिमाचलं भारतवर्षमात्र इति यावत् । अन्यत्र
क्षुत्तृष्णाभावादिति भावः । "आङ् मर्यादाभिविध्योः " इत्यव्ययीभावे "अव्ययीभावश्च " इति नपुंसकत्वे " ह्रस्वो नपुंसके प्रातिपदिकस्य " इति ह्रस्वः । दिनेदिने प्रतिदिनं प्रजाभ्यः प्राणिभ्य: अन्नं भोज्यवस्तुजातं दिशति ददति सति, पालकान्तरापेक्षाभावे
 
[^1 ]G., A'. सदा बुधानां.
 
[^2] A. याज्ञीय.