This page has not been fully proofread.

प्रथमस्सर्गः
 
चेत्तदभिवृद्धौ कीदृशं वा भवेदिति भावः । समस्तवस्तुविषयकं सावयवरूपक-
मलंकारः ॥ ३८ ॥
 
सत्रावतीर्णेषु यदाश्रितानां सुत्राममुख्येषु सुधाशनेषु ।
युद्धाहतैर्यः प्रतियोधियोधैश्चक्रे पुरीं शातमखीमशून्याम् ॥ ३९ ॥
 
सत्रेति – सुत्राममुख्येषु महेन्द्रप्रमुखेषु सुधाशनेषु देवेषु यदाश्रितानां
अच्युतभूपालमाश्रितवतां राजप्रसादसमासादितानवधिक विभवशालितया अनवर
ताग्निष्टोमादिषु शक्रादीनमरानाहूय प्रत्यक्षहविर्भागं प्रदिशतामिति भावः । सत्राय
यज्ञाय 2 यज्ञीयहविराहरणायेति यावत् । "सत्रं यज्ञे यज्ञभेदे" इति रत्नमाला । अव-
तीर्णेषु अवरूढेषु सत्सु स्वर्गाद्भवमिति भावः । ब्राह्मणानामानन्त्येन क्रतूनां
चानवरतप्रवर्तमानतया हविग्रहणाय भुवमवतीर्णानां स्वर्गगमनप्रत्यावर्तनावकाश-
लाभाभावेन देवेषु सदा भुवि स्थितेषु स्वर्गशून्यत्वे प्रसक्ते सतीति भावः । यः
अच्युतभूपः शातमखीं इन्द्रसम्बन्धिनीं पुरीं अमरावतीमित्यर्थः । युद्धे संयुगे
आहतैः निहतैः प्रतियोधिनां प्रत्यर्थिनां योधैः । ये युध्यमानास्त एव तेन हन्यन्ते, न
पुनः पलायिताः प्रह्लावेति महाधार्मिकत्वं व्यज्यते । अशून्यां परिपूर्णा निबिडा-
मिति भावः । चक्रे विदधे । करोतेरात्मने पदे लिट् । अत्र स्वर्गे देवसामान्यशून्यत्व-
स्यायोगे योगवर्णनादतिशयोक्तिः । तदपाकरणार्थकत्वस्य प्रतियोधियोधहनने
प्रतीत्या सिद्धविषया फलोत्प्रेक्षा व्यंजकाभावात् गूढा ॥ ३९ ॥
 
आलङ्कमाशङ्करधाम यस्मिन् दिने दिनेऽन्नं दिशति प्रजाभ्यः ।
जगत्मजारक्षणजागरूका देवी दधौ चिह्नतयैव दवम् ॥ ४० ॥
 
-
 
आलङ्कमिति – यस्मिन् अच्युतभूपे आलङ्क लङ्कामारभ्य आशङ्करधाम
कैलासपर्यन्तं आसेतुहिमाचलं भारतवर्षमात्र इति यावत् । अन्यत्र क्षुत्तृष्णा-
भावादिति भावः । "आङ् मर्यादाभिविध्योः " इत्यव्ययीभावे " अव्ययीभावश्च "
इति नपुंसकत्वे " ह्रस्वो नपुंसके प्रातिपदिकस्य " इति ह्रस्वः । दिनेदिने प्रतिदिनं
प्रजाभ्यः प्राणिभ्य: अन्नं भोज्यवस्तुजातं दिशति ददति सति, पालकान्तरापेक्षाभावे
2 A. याज्ञीय.
1 G., A'. सदा बुधानां.